पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासाय परस्मै ब्रह्मणे नमः श्रीमते विखनसे नमः श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् ॥ श्रीवैखानसगृह्यसूत्रम् ॥ श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् । येन वेदार्थविशेन लोकानुग्रहकाम्यया । प्रणीतं सूत्रमौखेयं तस्मं विखनसे नमः ।। अथ निपेकादिसंस्कारान् व्याख्यास्यामः ॥ (१) अथैवं 'अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वा'दित्यादिभिर्हेतुभिः सर्वसूत्रोत्तमत्वेन सम्प्रतिपन्ने श्रीवैखानसं कल्पसूत्रमनुजग्राह भगवान् विस्वनाः । अत्राथशब्दो मङ्गलार्थः । ननु 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ । इति सूत्रादौ प्रयुक्तस्याथशब्दस्यानन्तर्यमर्थः । 'पात्रधुवादयो यज्ञीये प्रोक्ता इति बचनेन श्रौतसूत्रस्य पूर्वमेव प्रणीतत्वप्रतीतेः अथशब्दस्यानन्तर्ये प्राचुर्याच श्रौतसूत्रप्रणयनानन्तर्यमेव वक्तमुचितमिित चेत् न। 'अथ निषेकदिसंस्कारान् व्याख्यास्याम 'इत्यारभ्य, “अष्टादशसंस्काराः शारीराः' इति स्मार्तसंस्कारानुक्त 'यज्ञाश्ध द्वाविंश'दित्यारभ्य 'अप्तोर्याम इति सप्त सोमयज्ञा' इत्यन्तेन यज्ञानां स्मार्तसंस्कारानन्तरमुपदेक्ष्यमाणत्वात्। तथा 'यज्ञप्रायश्चित्त वक्ष्याम'इत्यत्रैवोत्तरत्र , पूर्ववदैविकं पैतृकश्च हुत्वा'इति श्रौतसूत्रे वक्ष्यमाणत्वाच आनन्तर्यार्थ वक्तुं न युक्तम् । 'यज्ञीये प्रोक्ता' इत्यस्य वाक्यस्य ‘वक्ष्याम 'इत्येवार्थ । 'सुप्तिङ्कपग्रहे 'त्याद्युक्तः । तथा अन्येषामर्थानामप्यत्र न प्रसक्तिः। तथा च श्रुतिस्मृतिसिद्धस्य मङ्गलस्यात्र पूर्वभावित्वावश्यभावात् मङ्गलार्थत्वमेव वक्तुं युक्तम् ।