पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः ] बोधस्यन:- 'होतव्या ब्रह्मभूयाय नक्रियो ब्राह्मणो भवेत्। । अनभिरक्रियश्शूद्रः तस्माज्जातोऽग्निा द्विजः' ॥ इति मङ्गलप्रदोऽप्तिः जीवात्मा च । एवं चिदचिदीश्वरमेदप्रदर्शनार्थं प्रकृतिसंयुक्तस्य प्रत्यगात्मनः निषेकदि संस्कारा इति ज्ञापयितुश्च सूत्रादावथ शब्दः प्रयुक्तः । निपेकादिसंस्कागनिति । अत्र बहुव्रीहिः। स च द्विविधः । तदुण संज्ञिानः अतदुणसंविज्ञानश्चेति । निषेक आदिः येषां ते निषेकादयः तान् । संस्कारो हि नाम कार्यान्तरयोभ्यताकरणम् । यद्वा सत उत्कर्षाधानं संस्कारः स च द्विविधः । भूतोपयोगी भायुपयोगी चेति । 'दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः। निर्वाणमय एवायमात्मा ज्ञानमयोऽमल: ॥ इति निर्मलस्य प्रत्यगात्मनः गर्भाधानादय एते संस्काराः किमर्थमिनि चेदुच्यते। यथा शौनक – 'यथा न क्रियते ज्योत्स्रा मलप्रक्षालनामणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा । यथोदपानकरणात् क्रियते न जलाम्बरम् । मदेव नीयते वृद्धिमसतस्सम्भवः कुतः ।। तथा हेयगुणध्वंसादवबोधादयो गुणः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते' । इति । व्याख्यास्याम इति । आद्याभ्यामुपसर्गाभ्यामपेक्षितविस्तरसोची द्योतितौ। आदौ सङ्केपेणान्यत्र विस्तरेणेति भावः । तदेवोपपादयति-ऋतुसङ्गमने त्यारभ्य पाणिग्रहंणानीत्यन्तेन। ऋतुमङ्गमनगर्भाधानपुंसवनसीम-तविष्णुबलिजातकर्मोत्थान नामकरणान्नप्राशनप्रवासागमनपिण्डवर्धनचौलोपनयनपारायणव्रतबन्ध विसर्गोपाकर्मसमावर्तनपाणिग्रहणानीत्यष्टादशसंस्काराः शारीराः (२) ऋतुसङ्गमनादीनां क्षणं तत्तदवसरे निपुणतरमुपपादयिष्यते।