पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भी श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अष्टादश संस्काराः शारीराः । स्मार्तत्वेऽपि श्रुतिसिद्धाः वैदिकै रित्युक्तः । मुण्डकोपनिषद ‘वा शेते अदृढा यज्ञरूपा अष्टादशोक्तमवरं कर्म येषु' इति लोकान्तर जयाभावात् .जक्षेत्रवृद्धिकरा इत्यभिप्रायेण शारीरा इत्युक्तम् । यज्ञाश्च द्वाविंशत् ।। (३) यज्ञाः केवलं शारीरा न भवन्ति । अनेन संस्काराणां द्वैविध्यं दर्शितम्।

  • संस्कारा द्विविधा ज्ञेयाः ब्राह्मा दैवाः प्रकीर्तिताः । इति ।

शङ्गः– ‘संस्करैस्संस्कृतः पूर्वेरुतैरपि संस्कृतः' । इति च तत्र निषेकादिपाणिग्रहणान्ताः ब्राह्मसंस्काराः । यज्ञाः दैवसंस्काराः । ब्राह्मसंस्काराश्चतुर्विधाः बीजक्षेत्रशुद्धिकराः ब्राह्मणत्वापदकः उत्कृष्टत्वापदकः क्रियमाणाधशान्युपकारकाश्चेति । निषेकादिजातकर्मपर्यन्ताः बीजक्षेत्रशुद्धिकरा । नामकरणाद्युपनयनान्तः पनिबर्हणद्वारा ब्राह्मणत्वापादकः । उपकर्मादिपाणि अहणान्ता उत्कृष्टत्वापादकाः । इतरे क्रियमाणाघशान्तिद्वारा उपकारकराः। मनुः– ‘गाहोंमैर्जातकर्मचैलौञ्जीनिबन्धनैः । वैजिकं गर्भिकचैनो द्विजानामपमृज्यते' । इति।

  • वैदिकैः कर्मभिः पुण्यैः निषेकाद्वैर्द्धिजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च' । इति च । याज्ञवल्क्यः– 'षष्ठऽन्नप्राशनं मासि चूडा कार्या यथाकुलम्। एवमेनश्शमं याति बीजगर्भसमुद्भवमिति' ॥ स्वाध्यायेन ब्रहोंमैसैविधेनेज्या हुतैः। महायशैश्च यज्ञेश्ध ब्राह्मीयं क्रियते तनुः' । इति च । श्रीविष्णुपुराणे :-'अहन्यहन्यनुष्ठानं यज्ञानां द्विजसत्तम । उपकारकरं पुंसां क्रियमाणाधनाशनम्' । इति ।