पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् निषेकादाजातकादित्यादिभिः सूत्रकारेणोत्तरत्र वक्ष्यमाणा वर्षवर्धनादयः उक्तसंस्कारावान्तरभेदा इत्यवगन्तव्यम् । यज्ञाः इति । देवतामुद्दिश्य द्रव्यत्यागो यागः । यद्वा वषट्कारादियुतः। यद्वा “अयज्ञो वा एष योऽसामा’इति स्तोत्रशस्रसहितो वा। चकारस्समुचयपरः। निषेकादयः हविर्यज्ञादयश्च संस्काराः अनभिसंहितफलाश्चेत् भगवन्नतिद्वारा अपवर्गप्रदाः । 'अपाम सोममृता अभूम'इति श्रुतेः। 'ब्राह्मीयं क्रियते तनुरि' ित मनुस्मरणाच इतरसूत्रिभिः पाकयज्ञत्वेन गृहीतानां पञ्चमहायज्ञानां महायज्ञत्वमेवेति ज्ञापयितुं चकारः । तत्त्वं तेषां 'महायज्ञा' इति भगवताऽप्याश्वमेधिके उक्तम्। 'केचित्पञ्चमहायज्ञान् पाकयज्ञान् प्रचक्षते । यज्ञादीनपरे त्वाहुः(३) महायज्ञविदो विदुः । सर्व एते महायज्ञाः सर्वधा परिकीर्तिताः ।।' इति । प्रथमः खण्डः] ब्रह्मयज्ञो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुध्ययज्ञ इति पञ्चाना महहरनुष्ठानम् । (४) पञ्चमहायज्ञान् विविच्योपपादयति 'ब्रह्मयज्ञ' इत्यादिना । अत्र पञ्चा 'भक्षणी पेषणी चुली तापनी दाहनीति च । पञ्च सूना गृहस्थस्य वर्तन्तेऽहरहस्सदा ।। ' इति सूनादोषापनोदार्थमहरहरित्युक्तम् । स्थालीपकमाग्रयणमष्टका पिण्डपितृयज्ञो मासिश्राद्धं चैत्र्या श्वयुजीति सप्त पाकयज्ञाः ।। (५) इतरसूत्रिभिः यज्ञत्वेन गृहीतानामैौपासनादीनां निवृत्त्यर्थ पाकयज्ञानुप पदयति स्थालीपाकमित्यादिना ! सप्तपाकयज्ञानां रूढया पाक्यज्ञत्वम् चरु शब्दमयोगत् हविश्शब्दप्रयोगाभावाच । यज्ञशालायामेव कर्तव्यत्वनियमाभावाद्वा।