पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न अत्र बोधायनः । 'यच किञ्चिान्यत्र हिारादूयते सर्वास्ताः पाकयज्ञ संस्था' इति । अग्न्याधेयमग्रिहोत्रं दर्शपूर्णमासावाग्रयणेष्टिश्चातुर्मास्यो निरूढ पशुबन्धस्सौत्रामणीति सप्त हविर्यज्ञाः।। (६) हविर्यज्ञानुपपादयति अग्न्याधयेमित्यादिना । हविश्शब्दप्राधान्याद्ध विर्यज्ञाः । सप्त हविर्यज्ञा इत्यधिकसंख्यनिषेधार्थम् । अग्रिष्टोमोऽत्यग्रिष्टोम उक्थ्यष्षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त मो:यज्ञाः । (७) सोमप्रहाधिक्यात् स्त्रशस्राधिक्याच क्रतुभेदान् दर्शयन् सोमयज्ञानुप पादयनि अग्रिष्टोन इत्यादिना । अन्निष्टोमप्रभृत्यप्तोर्यामपर्यन्तानामेव नित्यत्वमितरेषां सत्राहीनादीनां नित्यत्वं नास्तीनि दर्शयनि सप्त सोमयज्ञा इति । एवमुक्तप्रकाराः निषेकद्यप्तोर्यामान्ताश्चत्वारिंशत्संस्कारा भवन्ति । वर्षवर्धनादयश्च सस्कारविशेषाः सङ्खयातेषु यथायोगं समुचीयन्ते । निषेकादाजातकान् संस्कृतायां त्राह्मण्यां ब्राह्मणात् जानमात्रो मात्रः । ब्राह्मणानां संस्कारविशेषादवस्थान्तरावतिं दर्शयति निपकादाजातकादि त्यादिना । जातमात्र इत्युक्तौ ब्राह्मणेन शूद्रादिक्षेत्रे जातानामपि ब्राह्मण्यं सम्भवतीति ब्राह्मण्यां ब्राङ्गणादित्युक्तम् । निषेकादित्याद्यनुक्तौ अमृते जारजः कुण्डो मृते भर्तरि गोलकः । ते न जाताः परक्षेत्रे देहिनां प्रेय चेह च ।। दत्तानि हव्यकव्यानि नाशयन्ति प्रदातृणाम् । पितुर्हि नरकयैव गोलकस्तु विशेषतः ।।' इति । नारदः- 'परदारेषु जायन्ते द्वौ पुत्रौ कुण्डगोलकौ । जीवत्यथ भवेत् कुण्डो मृते भर्तरि गोलकः ॥' इति ।