पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्ड ] श्रावखानसगृह्यसूत्रम् कुण्डगोलकयोरपि सम्भवतीति तद्वयावृत्यर्थ निषेकादाजातकादित्यद्युक्तम्। युधिष्ठिरः- 'आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे । स्वे क्षेत्रे संस्कृते ये तु पुत्रमुत्पादयेत्स्वयम् । तमौरसं विजानीयात्पुत्रं प्रथमकपिनम् । क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् । तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ' ।। भीष्मः– ‘रेतजो वा भवेत्पुत्रः पुत्रो वा क्षेत्रजेोऽपि वा । अव्यूढमेव समयं हित्वैतन्निबोध मे । आत्मज पुत्रमुत्पाद्य यस्त्यजत्कारणान्तर ! न तत्र कारण रतः स क्षेत्रस्वामिनो भवेत् । परक्षेत्रेषु यो बीजं नरे दपत्समुत्सृजेत् । । । क्षेत्रिकस्यैव तद्राजन्! न बीजी लभते फलम् ।' इति । उपनीतस्सावित्यूध्ययनाद्राह्मणः । उपनीतः सावित्यध्ययनार्हसंस्कारविशेषं प्राप्तः सावित्यध्ययनाद्राह्मण । बोषायनः– 'नास्य कर्म नियच्छन्ति किञ्चिदामौख्रिबन्धनात् । । वृत्या शूद्रसमो द्वेष यावद्वेदेन जायते' । इति । वेदमधीत्य शारीरैरापाणिग्रहणात्संस्कृतः पाकयद्वैरपि यजन् श्रोत्रियः । बोधायनः– ‘निषेके गर्भसंस्कारे जातकर्मक्रियासु च । विधिवत्संस्कृता मन्त्रैः चीर्णव्रतसमापनात् । श्रोत्रिया इति विज्ञेयाः शाखापाराश्च ये द्विजाः' ॥ इति । देवलः– ‘जन्भना ब्राह्मणो ज्ञेयस्संस्काराद्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय एव च ॥' इति । : (१०) (११)