पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः] श्रावलानसगृह्यसूत्रम् किञ्च- 'तस्य वा एतस्य महो भूतस्य निश्वसितमेतद्यदृग्वेद' इत्यादि च श्रयते । श्रीभागवते च–“पुरुषेष्वपि राजेन्द्र सुपत्रं ब्राझणं विदुः । तपसा विद्यया तुष्टया धत्ते वेदं हरेस्तनु' | मिति प्रोक्तम् हविर्यशैः अन्याधेयादिभिः अपिना पूर्वोक्तैस्संस्कारैरनूचानः श्रेष्ठतर । अङ्गाध्याय्यनूचान इत्यङ्गाध्यायी च । अत एव वेदानामाधिक्यम् । सोमयशैः अपिना पूर्वोतैस्संस्करैः श्रूणः श्रेष्ठतमः । 'यज्ञो हि श्रेष्ठतमं कर्मे' ित श्रुतेः । संस्करैरेतैरुपेतो नियमयमाभ्यामृपिकल्पः । (१४) नियमयमौ 'शैौचमिज्या तपस्सत्यं स्वाध्यायोपस्थनिग्रहौ । व्रतोपवासौ मौनश्च स्रानञ्च नियमा दश ' । इत्युक्ताः नियमाः

  • आनृशंस्यं क्षमा सत्यं अहिंसा दम आर्जवम् ।

दान प्रसादा माधुये मादेवश्च यमा दश' । इत्युक्ता यमाः साङ्गचतुर्वेदतपोयोगादृषिः । (१५) अङ्गानि 'छन्दः पादौ शब्दशास्रञ्च वक्तं कल्पः पाणिः ज्यौतिषं चक्षुषी च । शिक्षा घ्राणो ब्रह्मणः श्रोत्रमुक्तं वेदस्याङ्गान्याहुरेतानि षट् च' ॥ इति । वेदा: प्रसिद्धाः । तपोयोगः तपस्वित्वम् । यद्वा ‘तपो नानशनात्पर! मित्यनशनम् । यद्वा 'ऋतं तप' इत्याद्युक्तम् । यद्वा-- 'वैराग्यमनहङ्कारः शैौचमिन्द्रियनिग्रह । आम्नायाभ्यसनं दानं तथा कायविशोषणम् ॥ आहारिनयमो मौनमिति सन्तस्तपो विदु'रित्युक्तम् । -- ' (१३)