पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने यद्वा योगशब्देन ध्यानापरपर्यायः अष्टाङ्गयोग उच्यते । योगस्सन्नहनी पायध्यान सङ्गतियुक्तिषु ? इति प्रमाणात् । नारायणपरायणो निन्द्वो मुनिः । (१६) 'आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।॥ इति । अखिलजगदेककारणत्वात् नारायणः परं अयनं यस्य सः नागायण परायणः- । 'नारायणं महाज्ञेयं विश्वात्मानं परायण'मित्यादिश्रुतिः । निन्द्रः शीतोष्णसुखदुःखमानावमानलाभालाभजयाफ्जयादिषु दुःखसन्तोषहेतुषु सुखदुःख रहितः मुनिः । गीयते च 'दुःखेष्वनुद्विमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते' । इति । यद्वा भननशीलो मुनिरिति । विषयविशेषसंशीलनं मननम् । . तचात्र शुभाश्रयसंशीलनम् । अत्रोदाहृतानां मात्रादीनां लक्षणं देवलेनाप्युक्तम् मात्रश्च ब्राझणचैव श्रोत्रियश्च ततः परम् । अनूचानस्तथा मूणः ऋषिकल्प ऋषिमुनि इत्येतेऽष्टौ समुद्दिष्टाः ब्राह्मणः प्रथमं श्रुतौ । तेषां परः परः श्रेष्ठः विद्यवृत्तविशेषतः । ब्राह्मणानां कुले जातः निभृतः सत्यवाक् घृणी । अनुपेतः क्रियाहीनः मात्र इत्यभिधीयते । एकदेशमतिक्रम्य वेदस्याचावान् ऋजुः । स ब्राह्मण इति ख्यातः िनभृतस्सत्यवाक् घृणी । एकां शाखां सकल्पं वा षड्भिररधीत्य वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥