पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्ड:] भरद्वाजः - दक्षः - वसिष्ठः- मनुदक्षौ – दक्षः– श्रीबैशानसगृह्यसूत्रम् शैौचं कृत्वा यथान्यायमुफ्स्पृश्य यथाविधि । अन्नमभ्युक्षयेचैवमुट्टत्यार्कस्य दर्शयेत् ॥ त्यक्ताग्रमात्रं वा तस्मात् शेषं प्रेक्ष्य विशुद्धयति' । इति । 'मलमूत्रं त्यजेद्यस्तु विस्मृत्यैवोपवीतधृक् । तत्सूत्रन्तु परित्यज्य धरेदन्यत्पुनर्नवम् । कृत्वा मूत्रं पुरीषं वा यदा नैवोदकं भवेत् । स्रात्वा लब्धोदकः पश्चात् सचेलन्तु विशुद्धयति । गृहीतशिक्षश्चोत्थाय सृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ तिष्ठन् सृजति मूत्रन्तु याक्दाद्रश्च रेणवः । तावन्त्यब्दानि नरके तिष्ठत् स पितृभिस्सह । मूत्रं कृत्वा विनाशौचं कच्छं बट्टा द्विजाधमः । कच्छान्वितो मूत्रयित्वा स मूढो नरकं व्रजेत् ।। विट्छौचं प्रथमं कुर्यान्मूत्रशैौचमनन्तरम् ' । इति । 'अर्धप्रसृतिमात्रा तु प्रथमा मृतिका मता । द्वितीया च तृतीया च तदर्धेन प्रकीर्तिता । चतुर्थी पञ्चमी चापि द्वितीयामृत्तिकासमा ' । इति । 'द्वे लिङ्गे मृत्तिके देये पञ्चापाने करे दश । उभयोस्सप्त दातव्या मृदः शुद्धिमभीप्सता' ॥ इति । “एका लिङ्गे गुदे तिस्रः तथैकस्मिन् करे दश । उभयोस्सप्त दातव्या मृदः शुद्धिमभीप्सता ।। इति । 'एकां लिङ्गे मृदं दद्याद्वामहस्ते तु मृत्यम् । उभयोर्हस्तयोद्वे तु मूत्रशैौचं प्रचक्षते । आद्रामलकमात्रा तु मूत्रशैौचे तु मृत्तिका । मूत्रातु द्विगुणं शुक्रे मैथुने त्रिगुणं स्मृतम्' । इति । १७