पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् सङ्ग्रहे– 'पात्रोच्छिष्टन्तु यच्छौचे पाने पादावनेजने । भूमौ तदबु निस्स्राय शषणाचमन चरत् ॥ न चाभ्युदकशेवेणकुर्यादाचमने(?) द्विजः । यदि कुर्याद्विजो भूमौ स्रावयित्वा समाचरेत् ॥ संबर्तः – ‘शूद्राशुच्येकहस्तैश्ध दत्ताद्विनै कदाचन । क्षारूढपादुको वपि न शुद्धयेत द्विजोत्तमः । भरद्वाजः– “ सफेनं कलुषं सदुर्गन्धं सबुद्बुदम् । उष्ण समृत्तिकं क्षारं त्यजेदाचमने जलम् । तिष्ठन् नमन् हसन् जल्पन् शृण्वन्नन्यजभाषणम् ॥ अन्यं स्पृशन् दिशः पश्यन् न कदाचिदुपस्पृशेत् । मार्कण्डेयः-- 'महानिशा तु विज्ञेया रात्रौ मध्यमयामयो । तस्यां खानं न कुर्वीत सम्यगाचमनं तथा । भरद्वाजः-' ' काक्श्वखरविट्क्रोडताम्रचूडरजस्वला । व्रात्यान्त्यजातिपतितान् पश्यन्नेोपस्पृशेद्विजः । । द्विराचमनविधि भरद्वाजः – 'रुखानपानक्षुतस्वापहोम्भोजनकर्मसु । रथ्योपसर्पणे चैव विडुत्सृष्टौ द्विराचमेत् ॥ जपे श्मशानाक्रमणे परिधाने च वाससः । चत्वराक्रमणे चैव द्विजातिरुिपस्पृशेत् ।। स्मृतिरत्ने– ‘दाने प्रतिग्रहे होमे जपे सन्ध्यात्रये तथा । बलिकर्मणि चाचामेदादौ द्विस्सकृदन्ततः ।। भरद्वाजः– ‘चण्डालैरन्यजैरुक्तौ मलमूत्रविमोचने । दक्षिणश्रवणे विप्रो ब्रह्मसूत्रं विनिक्षिपेत् ॥ व्यासः- ‘भोक्ष्यन् भुक्ता च होमे च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेत् जपदानार्चनेषु च ।