पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] वलानसगृह्यसूत्रम् भार्कण्डेयः– 'आम्रोक्षुखण्डताम्बूलचर्वणे सोमपानके । विण्वङ्घ्रतोयपाने च नाद्यन्ताचमनं स्मृतम् । अङ्गाचमनादि–“स्वाध्याये भोजनारम्भे स्राने श्राद्धे कृते सति । यपिण्डपितृयज्ञे च तदङ्गार्थतयेष्यते । नैमित्तिका- 'क्षते रथ्यागमे स्वप्नेऽभक्ष्यसंस्पर्शने तथा । चमनम् - यत्रीवीपरिधानादौ तत्रैमित्तिकमुच्यते । दाने प्रतिग्रहे होमे सन्ध्यात्रितयवन्दने । बलिकर्मणि चाचामेदादौ द्विनन्ततो द्विजः । वासोत्तरपरीधाने स्वापे रथ्याप्रसर्पणे । चण्डालोपग्रहाऽक्रामे स्वानुष्ठानान्तरे क्षुते । अलोमकोष्ठसंस्पर्श श्मशानाक्रमणेऽपि च । हविश्शेवप्राशने च द्विराचमनमन्ततः ।। विष्णुपादोद्भवं तीर्थ पीत्वा न क्षालयेत्करम् । अथ दन्तधावनम् वृद्धशातातपः - 'मुखे पर्युषिते नित्यं भक्त्यप्रयतो नरः । तस्माच्छुष्कमथाद्रं वा भक्षयेद्दन्तधावन ? ।। टयासः- . 'प्रक्षाल्य पादौ हस्तौ च मुखं चाद्भिस्समाहितः । दक्षिणं बाहुमुदृत्य कृत्वा जन्वन्तरा ततः । आचम्य प्राङ्मुखः पश्चाद्दन्तधावनमाचरेत् । याज्ञवल्क्यः - ‘कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमत्रणम् ।। कनिष्ठिकाग्रवत् स्थूलं पूर्वाग्रकृतकूर्चकम् । दन्तधावनमुद्दिश्य जिह्वालेखनकं तथा । सुसूक्ष्म सूक्ष्मदन्तस्य समदन्तस्य मध्यमम् | स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् । २३