पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] कार्पसं दन्तकाष्ठश्च शक्रस्यापि श्रियं हरेत् । गर्ग:- 'कुश काशं पलाशच शिशुधां र स्तु मक्षमेत् । तावद्भवति अण्डालो याबद्धां नैव पयति ॥ वृद्धयाज्ञवल्क्यः-'इष्टकालोष्टपाषाणैरितरङ्गुलिभिस्तथा । मुक्तवा चानामिकाकुछौ वर्जयेद्दन्तधावनम् ॥ पैठीनसि:- 'तृणपर्णोदकेनाकुल्या वा दन्तांश्च धावयेत् प्रदेशिनीवर्जम् । वन्तधावनमन्त्रः-'आयुर्बलं यशोवर्चःजाः पशुवसूनि च । ब्रह्म प्रज्ञाश्च मेधाश्च त्वन्नो देहि वनस्पते ॥ अथ वज्र्यदिनानि-अष्टम्याञ्च चतुर्दश्यां पञ्चदश्यां त्रिजन्मसु । तैल मांसं व्यवायञ्च दन्तकाष्ठञ्च वर्जयेत् । व्यवायो मैथुनम् ।

  • प्रतिपद्दर्शषष्ठीषु नवम्याचैव : र ।

दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ।। तृणपणैस्सदा कुर्यादमामेकादशीं विना । तयोरपि च कुर्वीत जम्बूक्षरसालकैः ।

  • प्रतिपत्पर्वषष्ठीषु नवम्यां दन्तधावनम् ।

पणैरन्यत्र कधैस्तु जिद्दोल्लेखस्सदैव तु । भराजः– 'नद्यां देवालये गोष्ठे श्मशाने जलमध्यमे । ययागस्थाने शुचौ देशे नाचरेद्दन्तधावनम् । दन्तकाष्ठे त्वमावास्या मैथुने च चतुर्दशी । अष्टमी ग्राम्यधर्मे च ज्चलन्तमपि पातयेत । स्त्रीसङ्गं खादनं पानं स्वाध्यायं क्षुरकर्म च । न कुर्याद्दन्तकाष्ठश्च तैले तु शिरसेि स्थिते । शाण्डिल्यः-- *बाहू जान्वन्तरा कृत्वा कुक्कुटासनमास्थित । तर्पणाचमनोल्लेखान् दन्तशुद्धिं समाचरेत् । अन्यत्र २५