पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने गौणस्नानम् गाग्र्यः- दिव्यं वायव्यमानेयं ब्राहं सारस्वतं तथा । मानसश्चति विज्ञेयं गौणस्नानन्तु षड्धिम् ॥ योगयाज्ञवल्क्यः-'मान्तं भौमं तथाऽऽग्नेय वायव्यं दिव्यमेव च । वारुणं मानसचेति सप्त स्नानान्यनुक्रमात् । आपोहिष्ठादिभिर्मात्रं मृदालम्बन्तु पार्थिवम् । आग्नेयं भस्मना स्नानं वायव्यं गोरजस्मृतम् । यतु सातपवर्षेण दिव्यं तत्स्नानमुच्यते । वारुणश्चावगाहन्तु मानसं विष्णुचिन्तनम् ।। मानसं प्रवरं स्नानं सर्वे शंसन्ति सूरयः । आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः । ।। तथा स एवः- 'शन्न आपस्तु द्वपदा आपोहिष्ठाघमर्षणम् । एतैश्च पञ्चभिर्मन्त्रैः मन्त्रस्नानमुदाहृतम् । विद्वत्सरस्वतीप्राप्त स्नानं सारस्वतं स्मृतम् । प्राप्य सारस्वतं तीर्थं भवेन्मुदितमानस ।। सर्वशीर्थाभिषेकातु पवित्रं विदुषां हि वाक् । भुवि मूत्रं तथाऽऽकाशे मृध्यकाशे तथा भुवि । आकाशे भुवि मूर्धेि स्यात् मन्त्रस्नानं विधीयते । पादादि प्रणवं कुर्यादर्धर्चान्ते तथैव च । ऋगादौ प्रणवं कुर्यान्मन्त्ररुाने विशेषतः । शुचिदेशान्मृदानीय कुर्याद्रात्रोपलम्भनम् ।। मन्त्रं पार्थिवसंयुक्त भौमस्नानं तदुच्यते गोखुराद्रज आदाय गोसावित्रीं जपेद्बुधः ।। गात्रेष्वथ तदालिप्य स्नानं क्यव्यमुच्यते । उत्तरायणमध्ये तु यदा वर्षति वासवः ।