पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिीयः खण्डः] स गोहत्याकृतं पापं प्राप्तोत्येव न संशयः ।।' व्यास:- 'शीतास्वप्सु निषिच्योष्णः मन्त्रसम्भारसम्भृताः । गेहेऽपि शस्यते स्नानं तु स्यात् विफलं बहिः ॥ सम्भागाः-मृदादयः । बहिः तटाकादौ । विवस्वन् मन्त्रसंयुक्तमुपस्पर्शनमुच्यते । स्नानेऽवगाहनं चैव प्लवनं विधिवर्जितम् । मत्स्यकच्छपगण्डूकास्तोयमझा दिवानिशम् । न तेषां हि स्नानफलं तथैव विधिवर्जितम् । नद्यान्तु विद्यमानायां नदीश्चोत्सृज्य कृत्रिमे । न स्नायादल्पतोये तु विद्यमाने बहूदके । भूमिष्ठमुद्धतात्पुण्यं ततः प्रस्रवणोदकम् । ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते । तीर्थतोयं ततः पुण्यं गोदाक्र्यान्तु सर्वशः । किञ्- 'अधोवर्णोदके स्नानं वज्यै नद्यां द्विजातिभि । तस्यां रजकतीर्थेषु दशहस्तेन वर्जयेत् । शाल्मली तिन्त्रिणी निम्बं करञ्जश्च हरीतकी। कोविदारकपित्थार्कबदर्यश्च विभीतकः । शेलुश्च खदिरचैषां स्नानं छायासु वर्जयेत् । अश्वत्थस्य जले यत्र छाया भवति कुत्रचित् । तत्प्रयागसमं तीर्थं तत्र सन्निहितो हरिः । प्राङ्मुख उदङ्मुखो वाऽऽक्रम्य जलस्थलेष्वासीनः, पाणिपादा वामणिबन्धजानुतो दक्षिणादि प्रत्येकं प्रक्षाल्य, अफेनावस्राव मविच्छिन्महुनमशब्दमबहिर्जानु हृदयङ्गममुदकं गोकर्णवत्पाणि कृत्वा ब्राक्षेण तीर्थेन त्रिरावम्य, द्विरङ्गुष्ठमूलेनाऽस्यं परिमार्टि ॥ ४ ॥