पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने माङ्मुखः उदङ्मुखो वे' ति विष्णुः । 'पश्चिमे पुनरावभ्य याम्यां खानेन शुद्धयति' इति वचनात् प्राङ्मुख उदङ्मुखो वेत्युक्तम् । जलस्थलेष्विति । आपस्तम्बः - 'उदके तूदकस्थस्तु स्थलस्थः स्थलके शुचिः । पादौ कृत्वोभयत्रापि ह्याचम्योभयतश्शुचिः । पाणिपादाविति । आानशासनिके - सुप्रक्षलेितपाणिस्तु पादावामणिबन्धनात् । अधस्तादुपरिष्टाच ततः पाणिमुपस्पृशेत् ॥ 'तस्माद्दक्षिणोर्ध आत्मनो वीर्यावत्तर' इति श्रुतेः दक्षिणादीत्युक्तम् । कात्यायनः- 'यत्रोपदिश्यते कर्म कर्तुरङ्ग न चोच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः । मन्:- 'कुत्सिते वामहस्तः स्यात् दक्षिणः स्यादकुत्सिते । यज्ञोपवीतिना कायै सर्वकर्म प्रदक्षिणम् ॥ अधिकारिभेदेनाचमनं द्विविधम्, अमन्त्रकं समन्त्रकश्च । तत्र जलगत निषेधपूर्वकं कर्तुनिषेधनियमानाह अफेनेत्यादिना । शान्तिपर्वणि – 'वृत्रस्य रुधिराचैव बुद्बुदाः पार्थ जज्ञिरे । द्विजातिभिरभक्ष्यास्ते दीक्षितैस्तु विशेषतः । श्रीभागवते – 'तासु बुद्बुदफेनाभ्यां तद्दृष्टं तच विल्बिषम्' ।। अवस्रावं अवाक् स्रावम् । अविच्छिन्नं विच्छेदरहितं । अदुतं हृत्कण्ठतालुकाभिरित्युक्तवत् नातिशीघ्रम् । अबहिजन्विति । सुमन्तुः- ' होमं प्रतिग्रहो दानं भोजनाचमने जपः । न बहिर्जानु कार्याणि साङ्गुष्ठान सदाऽऽचरेत्।