पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्ड:] नसगृह्यसूत्रम् गोकर्णवत्पाणिं कृत्वेति । गोकर्णवत्तलं प्रोक्तं जलमादाय पाणिना । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् । ब्रामेण तीर्थेनेत्यादि । पूर्वमेवोक्तमाचमनम् । द्विरङ्गुष्ठभूलेत्यादि । अमन्त्रकसमन्त्रकाचमनयोः समानो मार्जनादिः । अङ्गुष्टस्यान्निः, प्रदेशिन्या वायुः, मध्यमस्य प्रजापतिः अनामिकायाः मूर्यः, कनिष्ठिकस्येन्द्रः, इत्यधेिदवता भवन्ति ॥ ५ ॥ ३५ अङ्गुष्ठानामिकाभ्यां चक्षुषी, अङ्गुष्ठप्रर्दशिनीभ्यां नामिके, अङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे, भुजैौ ताभ्यामङ्गुछेन वा, हृदयमङ्गुली भिः, नाभिश्चाङ्गुष्ठन प्रत्यङ्गपश्च स्पृष्टा जद्वयोवामे पाणावप्यभ्युक्ष्य सर्वाभिमूर्धानं स्पृशनि || ७ ।। अङ्गुलिभेदेनाधिदेवना उच्यन्ते अङ्गुष्ठस्याग्रिरित्यादिना। तत्तदङ्गा धिष्ठितदेवताप्रीतिद्वारा शुद्धिरित्यभिप्रायेण तत्तदङ्गुल्या तत्तदङ्गस्पर्शनमाह अङ्गुष्ठ मध्यमाभ्यामित्यारभ्य मूर्धानं स्पृनीत्यन्तेन ।

  • इन्द्रोऽहमुभ भ्या' मिति करौ 'आपः पादावासिन् कुले 'इति

पादौ च तथा प्रक्षाल्य 'आपः पुनन्त्वि ? ति पुनस्तथाऽऽचामति ।।८।। ऋग्वेदे – आय: पादावित्यारभ्य 'दक्षिणं पादमवनेजत्यस्मिन् राष्ट इन्द्रियं दधाति सव्यं पादमवनेजति, अस्मिन् राष्ट्र इन्द्रियं वर्धयतीति श्रुतम् । आश्वमेधिके – 'आपः पुनन्तु इत्युक्ता पुनराचमनं चरेत्। मैौहारां व्याहृतिश्चापि सदसस्पितमित्यूचम्।।' इति ऋग्वेदः प्रीणातु यजुर्वेदः प्रीणातु सामवेदः प्रीणातु इति त्रिरपः पीत्वा, अथर्ववेदः प्रीणातु इतिहासवेदः प्रीणातु चन्द्रमाः प्रीणातु इति त्रिधा मुखं मार्टि ।। ९ ।।