पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम श्ये महेश्वरः प्रीणातुं इति मूर्धानम्, आदित्यः प्रीणातु सोमः प्रीणातु इति चक्षुषी, दिशः प्रीणन्तु इति श्रोत्रे, वायुः प्रीणातु इति नासिकाम्, इन्द्रः प्रीणातु इति भुजै, विष्णुः प्रीणातु इति हृदयम्, अग्ःि प्रीणातु इति नाभिं स्पृशतीत्येके ।। १० ।। ऋग्वेदः प्रीणात्वित्यादिना मन्त्रकमाचमनमुच्यते । ननु तत्तदहुलिमात्रेण विना अङ्गुष्ठन सह स्पर्शनं किमर्थमिति चेत् उच्यते । 'अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । इति श्रुते : । 'योऽयं दक्षिणो हस्तस्स यज्ञ' इति– यजत्ययं शब्दो देवपूजासङ्गतकरणदानेषु। यस्मादेतानि कुर्वते तस्माद्यज्ञः, वाग्यज्ञः तस्याधिदैवतं स चात्र तस्माद्यज्ञो यश्चायमङ्गुष्ठस्सविष्णुः स यस्याधिदैवत ():मिति बोधायनवचनाच , ‘सर्वास्वकुष्ठ मुपनिगृहाती 'ति श्रुतेश्च साङ्गुष्ठनि स्पर्शनानि प्रतिपादितानि । 'साङ्गुष्ठानि सदाचरे' दिति मनुस्मरणाच । शङ्खः- त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम । गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् । नासत्यदौ प्रीयेते स्पृष्ट नासापुटद्धये । स्पृष्ट लोचनयुग्मे तु प्रीयेते शशिभास्करौ । स्पृष्टन कर्मयुग्मेन प्रीयेते ह्यनिलानलौ ॥ स्कन्धयोः स्पर्शनादेव प्रीयन्ते सर्वदेवताः । नाभिसंस्पर्शनान्नगाः प्रीयन्ते चास्य नित्यशः । संस्पृष्ट हृदये चास्य प्रीयन्ते सर्वदेवताः । भूम्यम्बत्सर्गतो नागः पृषद्भिश्च चराचरम् ॥' इति आनुशासनिके – 'सुप्रक्षालितपाणिस्तु पादावांमणिबन्धनात् । अधस्तादुपरिष्टाच ततः पाणिमुपस्पृशेत् ॥