पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनोगतास्तु निश्शब्दा निश्शब्दं निरपः पिबेत् । द्विमुखं परिमृज्याच खानि चोपस्पृशेद्बुधः ॥ ऋग्वेदस्तेन प्रीणाति प्रथमं यत्पिबेदपः । द्वितीयञ्च यजुर्वेदः तृतीयं साम एव च । मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात् । द्वितीयेनेतिहासश्च पुराणस्मृतिदेवताः । यचक्षुषी समाधत्त तेनादित्यन्तु प्रीणयेत् । प्रीणीतो वायुप्राणैौ च दिशः प्राप्याथ श्रोत्रयोः । ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत् । यदुत्क्षिपतेि चापोध्वं आकाश तेन प्रीणयेत् । प्रीणानि विष्णु पन्द्यान्तु.सलिलं वै समादधत्' । इति नन्वम्यादीनां वागाद्यङ्गदेवतात्वं कथं ? वागाद्यङ्गेषु स्पृष्टषु कथं वा प्रीतिः ? किं फलमिति चेत् । ऋात्राह्मणे श्रयते – ' आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिक्त् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत अम्भो मरीचीर्मरमा पोषोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षे मरीचयः पृथिवी मरो या अधस्तात्ता आपः । स ईक्षत इमे लोकाः, लोकपालान्नु सृजा इनि । सोऽद्भद्य एव पुरुषं समुदृत्थामूर्छयत् तमभ्यतपत् तस्याभितप्तस्य मुखं निभिद्यत (यथाऽण्ड), मुख द्वाक् वाचोऽप्तिः । नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्रणाद्वायुः । अक्षिणी निरभिद्येतां अक्षिभ्यां चक्षुश्चक्षुष आदित्यः । कर्णी निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशः । त्वङ्नरभिद्यत त्वचो लोमानि, लोमभ्यः ओषधिवनस्पतयः । हृदवं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमाः । नाभिर्निरभिद्यत नाभ्या अपानः, अपानान्मृत्युः । शिक्षं निरभिधत शिक्षाद्रेतो रेतस आपः । ता एत देक्तास्सृष्टा अमिन् महार्णवे प्रापतंस्तमशनायापिपासाभ्यामन्वार्जत्ता एनमब्रवन् अवयतनं नः प्रजानीहि यस्मिन् प्रतिष्ठिता अन्नमदामेति । ताभ्यो गामानया