पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] • वानस्य लोको भवति नास्य तावलोको जीर्यते यावदेतेषां न जीर्यते दिशाश्च चन्द्रमसश्च, य एवमेतां श्रोतस्य विभूतिं वेद । मनसा सृष्टा आपञ्च वरुणश्च, आपोहासै श्रद्धां सन्नमन्ते पुण्याय कर्मणे, वरुणोऽस्य मजां धर्मेण दाधार एवमेते मनः पितरं परिचरन्ति आपञ्च वरुणश्च, यावदन्वापो यावदनुक्रुण स्तावानस्य लोको भवतेि नास्य तावलोको जीर्यते यावदेतेषां न जीर्यते अपाश्च वरुणस्य च, य एवमेतां मनसो विभूतिं वेद ' इति । वागादीनामेवंरूपेण विभूतेः श्रूयमाणत्वात् “आपो वा इदं सर्व 'मित्यादि श्रुतेश्च प्रत्यङ्गभपश्च इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्तचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूलव्याख्याने तात्पर्यचिन्तामणौ द्वितीयखण्डार्थविवरणं समाप्तम् ।