पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः खण्डः मन्: अथाऽो नमस्कृत्यावगाह्य यावदमनश्शङ्कमद्भिर्तृदा च गात्र शुद्धिं कृत्वा वस्रमादशात्सूदितमिनि नेनेक्ति ।। १ ।। अथ करप्रक्षालनादिशुद्धाचमनानन्तरम् । अपो नमस्कृत्य । अयं सर्वकारणत्वात्तन्नमस्कारः। अवगाह्य यावदमनश्शङ्कमद्भिदा च गावशुद्धिं कृत्वा-मृञ्जलाभ्यां यावन्मनश्शुद्धि तावत्पर्यन्तमित्यर्थः । स्मृतिः – ' शौचन्तु द्विविधं प्रोक्तं बाह्ममाभ्यन्तरं तथा । मृजलाभ्यां बहिश्शुद्धिर्मनश्शुद्धिस्तथान्तरम् ॥' इति बोधायनः-- ' अद्विशुद्धयन्ति गात्राणेि बुद्धिज्ञानेन शुद्धयति । अहिंसया च भूतात्मा मनस्सत्वेन शुद्धयति । आश्वमेधिके - 'मनश्शौचं कर्मशौचं कुलशौचञ्च भारत । शरीरशैौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् । सत्यपूतां वदेद्वाचं वस्त्रपूतं जलं पिबेत् । दृष्टिपूनं न्यसेत्पादं मन:पूतं समाचरेत् । बोधायनः-- 'कालो मनसशुद्विरुदकाद्युपलेपनम् । इंह अिवज्ञातश्च भूतानां पड़ शैौचमुच्यते ॥'()इति 'मानसं वै प्राजापत्यं पवित्रम् ? इति श्रतिः ।

  • मन एव मनुष्याणां कारण बन्धमोक्षयोः' इति मनस एव शुद्धे

प्राधान्यमम्, अशुद्धचित्तम्यावसानपर्यन्नं शौचं कुर्वतः शुद्धिर्नास्तीत्यवगम्यते । व्यासः– 'गङ्गातोयेन कृत्स्नेन मृद्वारैश्च नगोपमैः । आमृत्योराचरञ्छौचं भावहीनो न शुद्धयति ॥ वल्मीकस्थो यथा व्यालो बहिर्दण्डविघट्टनात् । न बिभेति तथा पाप्मा बहिस्खानशतादपि ।' इति