पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् झान्तिपर्वणि – “ अमिहोत्रं क्ने वासः स्वाध्यायो दाररक्षणम् । सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः । अतो यावदमनश्शङ्क' मित्युक्तम् । वर्ख .... नेनेक्ति । आनुशासनिके- 'क्षारोषराभ्यां वस्रस्य कुर्याच्छौचं मृदा सह । लेपगन्धापनयनं तस्माच्छौचं विधीयते । गायत्र्या प्रागग्रिकमुदगग्रिकं वाऽस्तृणाति, शुष्के तयैव गृह्णीयात् ॥ २ ॥ आद्रवासास्तु यः कुर्याजपहोमप्रतिग्रहान् । सर्वं तद्राक्षसं विद्यादृहिर्जानु च यत्कृतम् । इति सुमन्तुमरणात् शुष्केति । इदमापः प्रवहतेत्यभिगम्य, हिरण्यशृङ्गमिति जलं प्रणम्य, समृदोदकेन “आपः पुनन्तु' इत्यभ्युक्ष्य, “इदमापशिवा' इत्यपो विगाह्य सुखाति ॥ ३ ॥ सङ्कल्पपूर्वकमिति योज्यम् । असङ्कल्प्य तु यः कुर्यात् स्रानदानव्रतानि च । अन्यानि पुण्यकर्माणि विफलानि भवन्ति हि ।' इति सङ्कल्पस्सूक्तपठनं मार्जनश्चाधमर्षणम् । तर्पणं पितृदेवानां खानं पञ्चाङ्गमुच्यते ॥ तििथवारादिकं स्मृत्वा सुसङ्कल्प्य यथाविधि।।' इति च स्मरणात्। हिरण्यश्रृङ्गमित्युक्ता जलं समवगाहयेत् । सुमित्रा न ऋचाऽऽहृत्य मृत्खाने जलमुत्सृजेत् ॥ योऽस्मान् द्वेष्टीत्यूचाऽऽहृत्य तथा तत्र जलं क्षिपेत् । पूर्वमुखश्चत्रैश्यामन्यथा पश्चाद्भागे