पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने

  • अङ्गष्ठानामिकाभ्यान्तु छित्रं पैतामहं शिर ।

रुद्रेण जातिस्मरणात् ततः कालयत् करोऽशुचिः । तस्मात्पवित्रहस्तार्थ कुशकाञ्चनधारणम् ।। इति व्यासस्मरणाद्दोषनिर्हरणार्थमनामिकायां धारयेत् ।। किञ्च । * यथा चक्रे महाविष्णोर्यथा शूलं पिनाकिनः । यथा वज्र महेन्द्रस्य तथा विप्रकरे कुशः ।' इति शनधारमिति जलं गृहीन्वा पयस्वर्तीरोषधय इत्याचग्य । अपोऽश्नाति अन्तरत एव मेध्यो भवती 'ति श्रुतिः । भृग्य इत्युपस्थान मादित्यस्य । 'उद्यन्तमस्तंयन्तमादित्यमभिध्याय'न्निति श्रुतिः । चित्पतिरिति । त्रिभिरनामिकोपान्ताभ्यां समृदोदकेन त्रिः प्रदक्षिणमावत्यै शिरो मार्टि ।। ५ ।। चित्पतिरिति । त्रिभिग्नामिकोपान्ताभ्याम् । उपान्तः – अङ्गुष्ठः सर्वास्वङ्गुष्ठमुपनिगृह्याती' ित श्रुतेः । अङ्गुष्ठव्यतििरक्तानामन्योन्यसापेक्षाया अभावादङ्गुष्ठापेक्षाया िवद्यमानत्वाच। समृोदकेन िशरस उपरि । ित्रः प्रदक्षिण मावत्यै शिरो माष्टि । स्मृतिप्रदीपिकायाम्'आयुष्कामः शिरोलोपं मृदा कुर्याद्विजः पुरा । श्रीकामः पादशौचच मृदा पूर्व समाचरेत् । 'अःपो 'हिरण्य'पवमानैः' प्रोक्षयति ॥ ६ ॥ अत्र प्रोक्षणं खानाङ्गत्वेन । बोधायनः-' अपि यानाद्याऽऽपेय(?)प्रतिषिद्धभोजनेषु दोषवच कर्म कृत्वाऽभि सन्धिपूर्वकमनभिसन्धिपूर्वकं वा शूद्रायाञ्च रेतसिक्ता अयोनौ वा ब्लिङ्गाभि र्वारुणीभिश्चोपश्पृश्य प्रयतो भवति । अपोऽवगाहनं स्रानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणचैव द्विजातीनां विशिष्यते ॥ इति