पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] उद्वयमि' त्यादिनाऽऽदित्यमुपस्थाय, महाव्याहत्या जलममि मन्त्र्य, कर्णावपिधायाभिमुखमादित्यस्यार्ध निभज्य, 'ऋतश्च सत्यङ्ग, या सुगन्धा' इति त्रिरावर्तयन्नघमर्षणं करोति । ७ ।। मन्त्राक्षरेषु सर्वेषु मूर्तिभेदाः परात्मनः । शक्तयश्चानुभावाश्च सदा तिष्ठन्ति सत्तम । हित िवणुधर्मोत्तरवचनात् भगवत्सान्निध्याथै महाध्याहृत्याऽभिमन्त्रणभुक्तम् । सङ्ग्रहे - 'पिधाय नासिकाकर्णी खानं कुर्याद्यथाविधि' इति । यद्व जलप्रवेशनिवारणार्थम् । अभिमुखमादित्यस्य । स्मृतिः– 'स्थिरोदकेषु सर्वेषु सूर्यस्याभिमुखो द्विजः । प्रवाहाभिमुखो मजेद्रङ्गाद्यादिसरित्सु च ॥ व्यास:- 'स्रवन्तीषु सदा स्रायात् प्रतिस्रोतस्थितो द्विज । तटाकादिषु तंयेषु प्रत्यर्क स्रानमाचरेत् । सङ्ग्रहे – ' स्रोतसोऽभिमुखस्स्रायात् मार्जने चाघमर्षणे । अन्यत्रार्कमुखो रात्रौ प्राङ्मुखोऽग्मुिखोऽपि वा । सन्ध्यामुखस्तु सन्ध्यायां लानं कुर्वीत यत्नतः । निमज्ज्य विष्णुः– 'अन्तर्जले जपेन्ममः त्रिष्कृत्वस्वघमर्षण । म् द्विपदां वा त्रिरावतेदायं गौरिति वा त्वृचम् ॥ सव्याहृतीक सप्रणवां गायत्रीं त्रिर्जपेत्त वा । आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णुमव्ययम् ।। योगयाज्ञवल्क्यः-'लमध्ये स्थितो विप्रः शुद्धभावो हरिं स्मरेत् ।

  • तद्विष्णोरिति मन्त्रेण जपेदप्सु पुनःपुनः ।