पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहितम् बोथायनः- । प्रायश्चित्तानि वक्ष्यामो वेिस्यातानि विशेषत । समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥. ऋतञ्च सत्यछेत्येतदघमर्षणं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । 'आर्य गौः पृभिरक्रमीदित्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । 'दुपदादि वेन्मुमुचान ! इत्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । 'हंसशुचि षदित्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । अपिवा सावित्रीं, गायत्रीं फ्च्छोऽर्धर्चशस्समस्तात्रेति एतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्यूपात्प्रमुच्यते । अपिवा व्याहृतीव्यैस्तास्समस्ताश्च त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते इति । तदेतद्धर्मशास्त्रं नापुत्राय नाशिप्याय नासंवत्सरोषिताय दद्यात् । सह दक्षिणा ऋषभैकादशं च गुरुप्रसादो वा गुरुप्रसादो वेति । [प्रथम प्रश्ने विष्णुः–“ततोऽप्सु निमस्त्रिरघमर्षण जपेत् । तद्विष्णोः परमं पदमिति, दुपदां व, सावित्रीं, युञ्जते मन इत्यनुवाक, पुरुषसूक्त वा तज्जुम्बकमन्त्रण वा जपेदप्सु यथावलमिति । मनुः– 'यथाऽश्वमेधः क्रतुराट् सर्व पापं व्यपोहति । तथाऽघमर्षणं सूक्तं सर्वपापप्रणाशनम् । अघमर्षणसूक्तस्य माधुच्छन्दसोऽघमर्षण ऋषिः अनुष्टुप् छन्दः भाववृत्तः परमात्मा देवता । भावस्य सत्तामात्रस्य ब्रह्मणो वृत्तं जगत्सृष्टिः । सूक्तस्य प्रतिपाद्यो वरुणो वा । त्रिरावर्तयमित्युक्त्वान्मानसिकमेव । पराशरः “ 'मन्त्रपूतैर्जलैर्यत्तत्प्राहुः स्रानं फलप्रदम् । न वृथा वारिममानां यादसामिव निष्फलम् ।। ब्रह्मक्षत्रविशाचैव मन्त्रवत्वानमिष्य : । तूष्णीमेव हि शूद्रस्य स्त्रीणाचैव भवेदिति ।