पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड) श्रीवैखानसगृह्यसूत्रम् ततो मन्दं निःश्वस्य, धौतं परिधाय, अनुपमृज्यवासः, प्रातः 'सूर्यथे' त्यादिनाऽऽचम्य, 'आपोहिष्ठादिभिः ऋग्भिस्तिसृभिः प्रेक्ष्य, गायत्र्याऽपोऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य, प्रदक्षिणं करोति ॥८ मन्दमिति । मन्दनिश्वसनं शूलादिरोगनिवारणार्थम् । विष्णुः- 'स्रातश्चाईवाससा देवर्षिपितृतर्पणमप्स्वेव कुर्यादिति । काष्णजनिः- 'देवतानां पितृणाश्च जले दद्याज्जलाञ्जलिम् । असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् ।। व्यासः– 'रुाने चैव तु सर्वत्र तर्पयेत्पितृदेवताः । काम्ये नित्ये विशेषेण तत्प्रकुर्यात्प्रयव्रतः । देवान् ब्रह्मऋवींथैव तर्पयेदक्षतोदकैः । तर्पयेतु पितृन् भक्तया सतिलोदकचन्दनैः ॥ कौशिकः- 'प्रातःकाले (खाने)विशेषोऽयं विद्धि नैव तिलैर्युतम् । नैमितिकश्च काम्यञ्च तिलैरेव विधीयते । आपस्तम्बः- 'अस्पृश्यस्पर्शने वान्ते त्वश्रुपाते क्षुरे भगे । स्रानं नैमित्तिकं ज्ञेयं देवर्षिपितृवर्जितम् । स्मृत्यर्थसारे - 'तूष्णीं लायादशुद्धस्तु मन्त्रसम्भारवर्जितम् । अस्पृश्यस्पर्शने स्राने नाघमर्षणतर्पणे ।। भारद्वाजः– “ अस्पृश्यस्पर्शने चैव त्रयोदश निमज्ज्य च । आचम्य प्रयतः पश्चात् सानं िविधवदाचरेत् । शुचिवस्रधरः स्रातः परिधायाम्बरं शुचि । तेषामेव हि तीर्थेन कुर्यादुदकतर्पणम् ।। एवं स्तानाङ्गतर्पणं कृत्वा यक्ष्मणे तर्पणं कुर्यात् । शानक :- 'स्रानाङ्गतर्पणं कृत्वा यक्ष्मणे जलमाहरेत् । अन्यथा कुरुते यस्तु रुानं तस्याफलं भवेत् । ४७