पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् निराशास्ते निवर्तन्ते वस्त्रनिष्पीडनेऽकृते । तस्मान्निष्पीडयेद्वस्रमकृत्वा पितृतर्पणम् ।। हारीतः- * वस्त्रनिष्पीडनं तोयं श्राद्धे तूच्छिष्टभोजनम् । भागधेयं श्रुतिः प्राह तस्मान्निप्पीडयेत् स्थले ॥ तत्र मन्त्रः- 'ये के चास्मत्कुले जाताः अपुत्रा गोत्रजा मृताः । ते गृङन्तु मया दत्तं वस्त्रनिप्पीडनोदकम् ॥ तृप्यन्तु तरुतां याता मम सम्बन्धिनो मृताः । तिर्यग्योनिगता ये च वस्रनीष्पीडनाम्बुना । पराशरः- ' स्रातो नाङ्गानि मृजेत् स्रानशाठ्या न पाणिना । स्मृत्यन्तरे– ' आद्रेण वाससा यस्तु शरीरं परिमार्जयेत् । शुनोच्छिष्टं भवेद्रात्रं पुनस्लानेन शुद्धयति । पुण्यतीर्थेषु सर्वेषु रुानवस्रमधस्त्यजेत् ।' इति केचित् चन्द्रिकायाम् – “ नोत्तरीयमधः कुर्यान्नोपर्यधस्त्यमम्बरम् । नान्तर्वासो विना जातु निवसेद्वसनं बुधः ।।

  • ब्राह्मणस्य सितं वस्त्रं नृपते रक्तमुल्बणम् ।

पीतं वैश्यस्य शूद्रस्य नीलं मलवदिप्यते । प्रजापतिः – 'क्षेौमं वासः प्रशंसन्ति तर्पणे सदशं तथा । काषायं धातुरक्त वा नोल्बणं तत्र कर्हिचित् । काषायवासाः कुरुते जपहोमप्रतिग्रहम् । सर्वं तद्राक्षसं विद्याहिजनु च यत्कृतम् ॥ धौतमिति । प्रकारान्तरेण धैौतलक्षणमाह सप्तवातहतं वस्त्रं धौतमित्यभिधीयते । चतुर्दशकृतं वस्त्र शुष्कमित्यभिधीयते ।