पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् उशनाः-- * शात्वाऽनुपहतं वखं परिदध्याद्यथाविधि । अभावे पूर्वक्त्रं वा सम्प्रेक्ष्य प्रणवेन तु ॥ बोधायनः 'देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत्' ॥ याज्ञवल्क्यः - “जपे होमे तथा दाने दैवै पित्र्ये च कर्मणि । बधीयान्नासुरीं कक्ष्यां शेषकाले यथेच्छया ।। परिधानाद्वहिः कक्ष्या निबद्धा चासुरी मता । धर्मे कर्मणि विद्वद्भिर्वर्जनीया प्रयत्नतः । एकवस्रो विरूश्च खण्डवस्रस्तथैव च । बहि:कच्छों विकच्छश्च नमः पञ्चविधः स्मृतः ॥ विकच्छः कच्छशेषश्च मुक्तनीवीशिखस्तथा । तथाऽकौपीनवासाश्च नमः पञ्चविधः स्मृतः । युमैर्विवर्तितं रौद्रमयुग्मं ब्राह्ममुच्यते । युमायुमैर्यतिस्यूतं वैष्णवं कटिसूत्रकम् । आश्वमेधिके- 'शुद्ध चाच्छादयेत्कक्ष्ये न कुर्यात्परपाशके । पाशनिबद्धकक्ष्यो यः कुरुत कम वैदिकम् ॥ राक्षसा दानवा दैत्यास्तद्वलुपन्त हर्षिताः' । योगयाज्ञवल्क्यः - । स्रावैवं वाससी धौते अच्छिन्ने परिधाय वै । प्रक्षाल्योरू मृदाद्भिश्च हस्तौ प्रक्षालयेत्ततः । । सश्हे- 'प्रातस्सन्ध्यामुपासीत वस्रशोधनपूर्वकम् । उपास्य मध्यमां सन्ध्यां वस्तसंश्रोधनं परम् । अनिष्पीड्य ज्ञानवरुं सन्ध्याकर्म न चाचरेत् । अन्यथाकुरुते मोहात् कृतमप्यकृतं भवेत् ॥ [प्रथम प्रश्न