पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खण्डः] बलान्त सूत्रम् ५१ नारदीये – 'ऊध्र्वं नयति यत्पुण्डूः प्राणिनः पापकारिणः । तस्योध्र्वपुण्ड् इत्याख्या तस्मात्तद्धारयेद्विजः । ऊध्र्वगत्यान्तु यस्येच्छा तस्योध्र्व पुण्ड्रमुच्यते । ऊध्र्वं गत्वा तु देवत्वं सम्प्राप्तोति न संशयः । । महोपनिषदि - 'धृतोर्धपुण्डः परमेशितारं नारायणं सांङ्खयोगाधिगम्यम् । ज्ञात्वा विमुच्यते नरस्सर्वपापैः संसारपाशैरिह चैति विष्णुम्।' ीवैखानसे मरोचि -'अथातोनुष्ठानकल्पं व्याख्यास्यामः। सर्वे वैदिकाचारास्तपो यज्ञाश्च विष्णुपूजाविधेदत्वाद्वैखानससूत्रोक्तानुष्ठानं सर्वं समाचरन्नित्यनैमित्तिक काम्यानि कर्माणि सर्वाणि कुर्यादृध्र्वपुण्डू धृत्वा, ऊध्र्वपुण्डू विना जपहुतार्चनादीन् न कुर्यात्, कुर्याचेत्तत्सर्वं निष्फलं भवेत् । तस्मादृध्र्वपुण्डू धारयेत् । पर्वताग्रे नदीतीरे तीर्थस्थानेषु विष्ण्वालये गृहीता मृदुत्तमा, तुलसीमूले वल्मीके च गृहीतं मध्यमं, अन्यस्मिन् शुचौ देशे गृहीतमधमम् । चन्दनादसवगन्धद्रव्यरुत्तम । श्रीफलं तुलसीबिल्वपत्रश्च मध्यमम् । पञ्चगव्यतोयभस्मानाऽधमम् । एतैयै धारयेत् । श्रेतं सर्वसिद्धिदं, श्यामं शान्तिकरं, पीतं श्रीकरं, रक्त वश्यकरमिति । हृदये महानग्ज्विल,ि तस्य शिखा ज्वालारूपवदूर्वपुण्डूस्यात् । अथवा दीपकृतिर्वेणुपत्राकृतिः पद्मोत्पलकुमुदानां मुकुलाकृतिः मत्यकूर्मशूर्पशङ्खदण्डा कृतिर्वा। ऋजु सुपार्श्वमूध्वपुण्डं कुर्यात्। अङ्गुष्ठतर्जनीमध्यमानामका इत्यङ्गुलयस्तेषां क्रमेण तुष्टिर्मुक्तिरायुर्वश्यमिति फलानि भवन्ति । ललाट-कुक्षि-हृदय-कण्ठो दरदक्षिणपार्श्व-दक्षिणबाहुमध्य-कप्ठो-दरवामपार्श्व-वामबाहुमध्य-कष्ठ पृष्टो-ध्र्वककुत्सु केशवादिद्वादशनामभिः प्रणवादिनमोन्तमुचार्य होमभस्मना रक्षार्थं मूध्वं पुण्डूं कृत्वा पश्चाद्वादशक्षरमुचार्य मूत्रिं विन्यसेत् । वामहस्तेन दक्षिणपार्श्वगतान्, अन्यान् दक्षिणहस्तेन कारयेत् । ऊध्र्वपुण्डू विना मुहूर्तमपि न चरेत् । ऊर्वपुण्डाङ्कितं दृष्टा मुत्युरपि दूरतो गच्छेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छती'ति ।