पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यविन्तामणिसहितम् [प्रथम प्रश्ने एवमूर्धर्वपुण्डूं कृत्वा । प्रातरित्यादि । उत्तमा तु सनक्षत्रा मध्यमा टुसतारका । अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता । । प्रातरित्यनेन उदयात्परं षण्णाडिकापर्यन्तं प्रात:कालः गृह्यते । सन्निहित कालत्वात् । किमर्थ प्रातरिति चेत् । उच्यते । बोधायनः-' अथातस्सन्ध्योपासनविधिं व्याख्यास्यामः 'इत्यारभ्य, 'रत्रिमुपतिष्ठते इमं मे वरुण ' 'तत्त्वायामी' ति द्वाभ्याम् । एवं प्रातः प्राङ्मुखख्रिष्ठन् मैत्राभ्यामहरुपतिष्ठते 'मित्रस्य चर्षणीधृतो ' 'मित्रो जनान्यातयति प्रजानन्नितेि द्वाभ्याम् । सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् । अनस्तमिते उपक्रम्य सुपश्चादपि पश्चिमाम् । सन्ध्ययोश्च सम्पत्तावहोरात्रयोश्च सन्तत्यै ।। अपि चात्र प्रजापतिर्गौ श्लोकौ भवतः । अनागतान्तु ये पूर्वामनतीतान्तु पश्चिमाम् । सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः । सायं प्रातस्समां सन्ध्यां ये न विप्रा उपासते । कामं तान् धार्मिको राजा शूकर्मसु योजयेत् ।।' इति । तत्र सायमतिक्रमे राञ्युपवासः प्रातरतिक्रमे अहरुपवासः । स्थानासन फलमवाप्तोति (?) । अथाऽप्युदाहरन्ति यदुपस्वकृतं पापं पद्भयां वायत्दृत भवेत् । बाहुभ्यां मनसावापि वाचा वा यकृतं भवेत् ॥ सायं सन्ध्यामुपस्थाय तस्मात्पापात्प्रमुच्यते । रात्र्या अपि च सन्धीयते वरुणश्चैनमनुगृह्वति । एवमेव प्रातरुपस्थाय रात्रिकृतात्पापात्प्रमुच्यते । मिस्रचैनं गोपायति । आदित्यचैनं स्वर्ग लोकमुन्नयति य एवमेव अहरहरहोरात्रयोस्सन्धिपृपतिष्ठमानो ब्रह्मभूतो ब्रह्मविराजो ब्रह्मण शास्रमनुवर्तमानो ब्रह्मलोकमभिजयति ब्रह्मलोकमभिजयती' ति स्मरणात् । ५४