पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड यजुषिः –“रक्षांसि ह वा पुरोऽनुवाके तपोऽग्रमतिष्ठन्त तान् प्रजापतिर्वरेणेोपा मन्त्रयत इत्यारभ्य ' असावादित्यो ब्रहेति ब्रहैव सन् ब्रह्माप्येति य एवं वेद इत्यन्तं श्रयते । पशिाब्राह्मणे व :- 'ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्ब्राह्मणस्सायमासीनस्सन्ध्या मुपास्ते कस्मात्प्राततिष्ठन् का च सन्ध्या कश्च सन्ध्यायाः कालः किञ्च सन्ध्याया स्सन्ध्यात्वं । देवाश्च सुराश्चैषु लोकेष्वस्पर्धन्त, तेऽसुरा आदित्यमभिद्रवन्, स आदित्योऽबिभेत्, तस्य हृदयं कूर्मरूपेणातिष्ठत्, स प्रजापतिमुपाधावत्, स तस्य प्रजापतिरेतद्वेषजमपश्यत् ऋतञ्च सत्यञ्चोङ्कारञ्च त्रिपदाञ्च गायत्रीं ,........ब्राह्मणो मुखमपश्यत् तस्मात् ब्राह्मणोऽहोरात्रयोस्संयोगे सन्ध्यामुपास्ते सज्योति राज्योतिषो दर्शनात्, सोऽस्य कालस्यात्सन्ध्यायाः तत्सन्ध्याया सन्ध्यात्वम् । यत्सायमासीन स्सन्ध्यामुपास्ते तया वितस्थानं जयति, अथ यदपः प्रयुङ्क्रे तानि विपुषो वज्री भवन्ति, ता विपुषो वत्रीभूत्वाऽसुरानपान्नन्ति, ततो देवा अभवन्, परायुः,भव त्यात्मना परास्य भ्रतृव्यो भवति य एवं वेदे' ति । स्मृत्यन्तरे– “त्रिंशत्कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः । प्रहरन्ति सहस्रांशुमुद्यन्तं दिने दिने ।।' इति श्रीविष्णुपुराणे --'उपा रात्रिस्समाख्यता उष्टिश्चाप्युदिते दिनम् । प्रोच्यते च! ततस्सन्ध्या उषारात्र्योर्यदन्तरम् । सन्ध्याकाले तु सम्प्राप्त रौद्रे परमदारुणे । मन्देहराक्षसास्मवें सूर्यमिच्छन्ति घातुिम् । प्रजापतिकृतश्शापस्तेषां मैत्रेय! रक्षसाम् । अक्षरत्वं शरीराणां मरणञ्च दिनेदिने । ततस्सूर्यस्य तैर्युद्धं भवत्यन्तदारुणम् । ततो द्विजोत्तमास्तोयमुक्षिपन्ति महामुने ।। ओङ्कारब्रह्मसम्पृक्तं गायत्र्या चाभिमन्त्रितम् । तेन दन्ति ते पापान् वङ्गीभूतेन वारिणा ।