पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् अमिहोत्रेषु हूयन्ते या मन्त्रैः प्रथमाहुतिः । सूर्यो ज्योतिस्सहस्रांशुस्तया दीप्यति भास्करः ॥ ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः । तदुचारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ वैष्णवोंऽशः परस्सूर्यो योऽन्तज्योंर्तिनसंशयः । अनिधाय तमोङ्कारं तस्य तत्प्रेरकं परम् । तेन तत्प्रेरितं ज्योतिरोङ्कारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यानि यानि वै । तस्मान्नेोलङ्कनं कार्य सन्ध्योपासनकर्मणः । स हन्ति सूर्य सन्ध्याया नोपतिं कुरुते हि यः ॥ ततः प्रयाति भगवान् ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिचैव प्रभुवैखानसैरपि ॥ ' इति अशक्यत्वात्सूर्यहिंसायाः सूर्यहिंसा नाम ऐहिकामुष्मिकहानिर्भवती त्यभिप्रायेण सन्त्र्योपासनादिकं प्रतिपादितम् तत्फलञ्च दर्शितम् । अत एव सूत्रे सूर्यश्वत्याचमनमापोहिष्ठादिभिः प्रेक्षणं गायत्र्या अध्र्यप्रदानं प्रदक्षिणं च साकल्येन प्रतिपादिनम् । मन्ध्यालक्षणं प्रकारान्तरेणोक्तं मङ्ग्रहे त्रयाणाचैव देवानां ब्रह्मादीनाञ्च सङ्गमः । मन्धिम्नर्वसुराणान्तु सन्ध्या तेन हुदाहृते' ति । नन्वाप ऊर्व विक्षिपन्तीनि श्रूयमाणत्वात् गायत्र्या अपोऽभिमन्यादि त्याभिमुखं विक्षिप्येति सूत्रे उक्तत्वाच मकृदेवार्यमदानस्य कर्तव्यत्वं प्रदीयन इति चेत्-सत्यम् । त्रिस्मन्ययोः क्षिपेदिति पितामहस्मरणात् । एक शस्त्रारुनाशाय एक वाहननाशन ! [प्रथम प्रश्ने असुराणां वधायैकं दद्यादध्यैत्रयं शुचिः ॥