पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गड श्रीवैखानसगृह्यसूत्रम् ५७ सम्यग्ब्रह्मास्रवद्धयात्वा गायत्रीमुचैरत् द्विजः । अस्रनाशे ब्रह्मदण्डं वाइनाशे (?) ब्रह्मशीर्षकम् ।। असुरनाशे ब्रह्मास्त्र ज्ञात्वा कुर्यात् समाहितः । कोटिसूर्यप्रीकाशं कालानलसमप्रभम् । नृम्भणञ्चाष्टवक्ता ब्रह्मदण्डमुदीरितम् । दंष्ट्राकरालमत्युग्रं कोटिसूर्यमप्रभम् । ग्रन्थितं केिशाग्रमेतद्ब्रक्षशिरो मतम् । । सहस्रार्कसमायुक्तं विद्युत्पिञ्जोपमाकृतिम् ॥ दुतूरकुसुमाकारं कोटिसूर्यसमप्रभम् । सहस्रधारमत्यु सर्वमन्त्रास्रनाशनम् ॥ प्रस्तारप्रतिमं मुष्टिप्राहं ब्रह्मास्रमीरितम् ।।' इति च स्मरणात् अध्यैत्रयमपि कर्तव्यम् । भारद्वाजः- “ आपो हिष्ठादिभिर्मन्त्रैस्त्रिभिस्सम्मार्जयेच्छिरः । सिन्धुद्वीपऋषिः छन्दो गायत्र्यापो हि देवता । मार्जने विनियोगः स्यात् सूर्यश्चेति जलं पिबेत् । अस्यानुवाकस्यामित्रषिः छन्दो गायत्रमंशुमान्।। देवता विनियोगोऽप पानेऽथ समुपस्पृशत् । अत्र कम:- आपोहिष्ठादिभिः पादं शिरस्यष्टौ च विपुषः । यस्य क्षयायेत्यधस्तात् क्षिप्ताऽद्धिः परिषेचयेत् ॥ आपोहिष्ठति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्री छन्दः, आपो देवता मार्जने विनियोगः । एवं मार्जयित्वा सूर्यश्चेत्यनुवाकस्य अप्तिः ऋषि, गायत्री छन्दः, सूर्यो देवता, अभ्यन्तरशुद्धयर्थमुदकप्राशने िवनियोगः । अग्श्धितिमत्रस्य सूर्य ऋषि अनुघुप्छन्दः अग्देिवता इति । पितामहः-- * अनेन चानुवाकेन अपः पीत्वा समाहितः । आत्मानं प्रोक्षयेत् पश्चात् सपवित्रकरो द्विजः ।