पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् बृहस्पतिः- 'बद्धा नासां नियम्यासून् स्मृत्वा चष्र्यादिकांस्तथा। सन्निमीलितदृछौनी समभ्यसेत् ।। प्राणायाम योगयाज्ञवल्क्यः -' य एता व्याहृतीस्सप्त संस्मरेत्प्राणसंयमे । उपासितं भेवेतेन विश्धं भुवनसप्तकम् ।। व्यासः – ' ' षोडशाक्षरकं ब्रह्म गायत्र्यास्तु शिरः स्मृतम् । सकृदावर्तयन् विप्रस्संसारादपि मुच्यते ।। संवर्तः– 'वाचिकं मानसं पापं कायेनैव तु यत्कृतम् । तत्सर्वे नश्यति क्षिप्रै प्राणायामत्रये कृते । । पापक्षयप्रकारः भगवच्छास्त्रे भृग्वादिभिरुक्तः । निरोषाज्जायते वायुर्वायोरन्निश्च जायते । तापेनाऽपोऽधिजायन्ते ततोऽन्तशुद्धयते त्रिभिः । मनुरपि – 'दह्यन्ते मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् । व्यासः – 'स्रानमाचमनं होमं भोजनं देवतार्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् । आसनारूढपादो वा जान्वोर्वा जङ्घयोस्तथा । कृतावसिक्थको यस्तु मौढपादस उच्यते । कृताबसकियकः-वस्रादिना कृतपादवन्ध इत्यर्थः । तृणासने यशोहानिदौर्भाग्यं दारुकासन । वंशासने दरिद्रः स्यात्प्लुवे चित्तविभ्रमः । धरण्यां मृत्युमाप्तीति पाषाणे व्याधिसम्भवः । कृष्णाजिने मन्त्रसिद्धिः क्षस्याद्याघ्रचर्मणि । कम्बले सर्वसिद्धिस्यादासनस्य शुभाशुभम् । गृहे जयं समं विद्याद्भोठे दशगुणं भवेत् । ६१