पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] सम्पूर्णकुम्भवतिष्ठत् कुन्भकस्स हि विश्रुतः । न गृह्णाति न त्यजति वायुमेतं बहिः िस्थतम् । ज्ञेयं तच्छून्यकं नाम प्राणायामे यथास्थितम् । प्रणवेन षोडशमात्रया रेचयेत् द्वात्रिंशन्भात्रया पूरयेत् । चतुष्षष्टद्या. कुम्भकम् ॥ प्रणवस्य ब्रह्मा ऋषिः, गायत्री छन्दः, परमात्मा देवता । अं ब्रह्मात्मने हृदयाय नमः । ॐ विष्वात्मन शिरसे स्वाहा । मं रुद्रात्मने शिखायै वौषट् । अं ब्रह्मात्मने कवचाय हुम् । ॐ विष्ण्वात्मने नेत्रयाय चौषट् । मं रुद्रात्मने अस्त्राय फट् । प्रणवध्यानम्

  • विष्णु भास्वकिरीटाङ्गदक्लयगलाकल्पहारोदरांघ्रि

श्रोणीभूषासुवक्षोमणिमकरमहाकुण्डलैर्मण्डिताङ्गम् । हस्तोद्यच्छङ्खचकाबुजगदममल पताकौशेयमाशा विद्योतद्भासमुद्यद्दिनकरसदृश पद्मसंस्थं नमामि ।' इति पितामहः– 'जपकाले त्रयी देवो होमकाले हताशनः । ध्यानकाले परं ब्रह्म विश्वेदेवास्ततोऽन्यथा । । अथ सप्तव्याहृतीनाम् 'अत्रिभृगुश्ध कुत्सश्च वसिष्ठो गौतमस्तथा । कश्यपश्चाङ्गिराश्चैते ऋषयस्युर्यथाक्रमम् । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्त रेव च । त्रिष्टप च जगती चैव छन्दांस्येतानि सप्त वै । असिर्वायुस्तथाऽऽर्कश्च वागीशो वरुणस्तथा । इन्द्रश्च विश्वेदेवाश्च देवतास्समुदाहृताः ॥ । प्राणायामे विनियोगः । स्वस्वोक्तवर्णतनवो रूपयौवनसंयुताः । क्षौमवरूपरीधानास्सर्वाभरणभूषिताः ।