पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-ान्पर्यचिन्तामणिसहितम् दिव्यचन्दनलिप्ताङ्गा दिव्यमाल्यैरलङ्कृता । सितोपवीनहृदयास्सपवित्रचतुष्कराः ।। उन्निद्रवदनाम्भोजप्रभामण्डलमण्डिनाः । जटाकलापपूर्णेन्दुप्रभापूरितदिङ्मुखः ॥ अभयाक्षस्रगप्पात्रवरहस्तग्मररहाः [प्रथम प्रश्ने गायत्र्याः विश्वामित्रपि: गायत्री छन्दः सविता देवता । ब्राह्मी स्वाहा वाहिनी च तथा नित्या विलासिनी ।

श्वतं श्यामश्च पीतञ्च पिशाङ्गं नीललोहितम् ।

नीलं कनवशर्णञ्च वर्णान्धेनान्यनुक्रमात् ।। प्रणवस्यैनयोर्वर्णः शुद्धस्फटिकसन्निभः । तत्त्वमेषां त्रयाणान्तु सर्वतत्त्वमिति स्मृतः । इत्यवमुक्ता नत्या च प्राणायाम समाचरेत् । विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दस्वयं स्मृतम् । देवता सविता प्रोक्ता ब्रह्मा तु शिरसो ऋषिः । अनुष्टुप् चैव छन्दः स्यात् परमात्मा हि देवता । प्राणायामे विनियोगः भारद्वाजः– 'समाहितमनाः प्राणानाययै मदाकृतिम् । जपित्वैवं दशकृत्वः प्राग्गायत्रीं तो जपेत् ।। अपक्रमोऽयमेव स्यात् सर्वपापप्रणाशनः । स्नृत्यन्तरे - सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसा सह । दशवारं जपित्वैव गायत्रीन्तु ततो जपेत् ॥