पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड:]] श्रीवैखासगृह्यसूत्रम् अत्र व्याहृतिन्यासः । ब्रह्मा- 'पादयोर्जङ्घयोजन्वोस्तथैव जठरेऽपि च । कण्ठे मुखे तथा मूर्धेि क्रमेण व्याहृतीन्र्यसेत् ॥ एकाक्षर पर ब्रह्म प्राणायामः परन्तपः । सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ।। भारद्वाजः– 'आयात्वित्यनुवाकेन हृदये वाऽर्कमण्डले । देवमावाह्य गायत्रीं ततो ध्यायेद्विजोत्तमः । पितामहः - 'आयात्वित्यनुवाकस्य वामेदेव ऋषिः स्मृतः । अनुक्षुप् जगती छन्दो गायत्री देवता स्मृता ॥ अनेन चानुवाकेन त्वावाह्य च यथाविधि । गायत्रीं विमलां देवीं हृदये सूर्यमण्डले ॥ ध्यानयोगेन सम्पश्येत् वर्णरूपसमन्विताम् । । श्रुतिः–' देवासुरास्संयत्ता आसन् तेषां गायत्र्योजो बलमिन्द्रियं वीर्य प्रजां पशून्संगृह्यादायाफ्क्रम्यातिष्ठते देवा अमन्यन्त यतरान् वा इयमुपावत्यैति त इदं भविष्यन्तीति तां व्यह्वयन्त विश्वकर्मन्निति देवा दाभीयसुरास्सानान्यतरांश्च नोपावर्तत ते देवा एतद्यजुरपश्यन्नेोजोऽसेि सहोऽसि बलमसेि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुःसर्वमसि । सर्वायुरभिभूरिति वा व देवा असुराणामोजो बलमिन्द्रियं वीर्यं प्रजां पशूनवृञ्जते' त्यादि । विश्वामित्र ऋषिश्छन्दो गायत्री देवता रविः । सावित्र्यास्तु त्रयः पादा चतुष्पादाः षडक्षराः ।। जपे तु त्रिपदा प्रोक्ता ह्यर्चने तु चतुष्पदा । प्रथमस्तु करन्यासो देहन्यासोऽप्यनन्तरम् । अङ्गन्यासस्ततः प्रोक्त एतन्न्यासत्रयं क्रमात् । हृन्मस्तकशिखागात्रनेत्रप्रहरणानि षट् । अङ्गान्यमूनि चोक्तानि वच्मि षट्पलवानि च ।