पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवासमतिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न चन्द्रिकायाम्- अछुछे चैव गोविन्दं तर्जन्यान्तु महीधरम् । मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥ कनिष्ठायां न्यसेद्विष्णु करमध्ये तु माधवम् । यत्कृतञ्च हुतं दत्तं जप्तमिटं तथैव च ॥ हस्तन्यासप्र वेिन सर्वं भवति चाक्षयम् । व्यासः– ‘भूरङ्गुष्टद्वये न्यस्य भुवस्तर्जनिकाद्वयोः । ज्येष्ठाजुलिद्वयोधमान् स्वः पदं विनियोजयेत् । अनामिकद्वयोधीमान् न्यसेत्तत्पदमग्रतः । कनिष्ठिकाद्वयोर्गः पाण्योर्मध्ये धियः पदम् ।। भूः पदं हृदि विन्यस्य भुवः शिरसि विन्यसेत् । शिखायाः स्वः पदं न्यस्य कवचे तत्पदं न्यसेत् ।। अक्ष्णोर्गपदं न्यस्य न्यसेद्दिक्षु धियः पदम् ।। हृदि न्यसेन्मूत्रिं वरेण्यकम् ॥ तत्सावतु न्यस्य भगों देवस्येतेि रखण्डं शिखायान्तु ततो न्यसेत् । धीमहीति न्यसेद्वर्म धियो योनश्च नेत्रयोः । प्रवेोदयातु चास्रार्थे पदन्तु विनियोजयेत् । अथ ध्यानम् ॐ s युक्तामिन्दुनिबद्धरलमकुटां तत्त्वार्थवर्णात्मिकाम् गायत्रीं वरदाभयाकुशकशाः शुभ्रं कपालं गदां (गुणं) शङ्ख चक्रमथारविन्दयुगलं हतैर्वहन्तीं भजे । । अथ सन्ध्याभेदेन रूपभेदमाह । 'प्रातः काले तु गायत्री सायङ्काले सरस्वती । मध्याहे च तु सावित्री उपास्या रूपभेदतः ।