पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रावसानसगृह्यसूत्रम् गायत्री स्याद्भवेद्रक्ता सावित्री शुक्रवर्णिका । सरस्वती तथा कृष्णा उपास्या रूपमेदतः । गायत्री ब्रझरूपा तु सावित्री रुद्ररूपिणी । सरस्वती विष्णुरूपा उपास्या रूपभेदतः ॥ विश्वामित्रः– 'भआदित्यमण्डलान्तस्थं परब्रह्माधिदैवतम् । छन्दो िनचित्याद्वायत्री मया दृष्टा सनातनी ॥ सावित्रीमेतां पितामहः सवितृदेवत्यामाह, ब्रझदेवत्या मगस्य बोधायनौ। एतेषां सवित्रादिशब्दानां दानां िनिखलनिगमान्तसमाम्नातत्य परयैकयैव वाचकत्वात् न विरोधः । तथाहि श्रुति - 'एकं सद्विप्रा बहुधा वदन्ति । 'तदेवामिस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तद्रह्म तदापः स प्रजापतिः । तदेवर्त तदु सत्य माहुस्तदेव ब्रह्म परमं कवीना 'मित्यादिका ।

  • एनमेके बदन्त्य मरुतोऽन्ये प्रजापतिम् ।

इन्द्रमेके परे प्राणानपरे ब्रह्म शाश्वतम् । विष्णुब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः । स एव चन्द्रश्चन्दाशी सूर्यो वैश्रवणो यमः ।। वदन्ति नामभिश्चान्यैरनामानमरूपिणम् । अथ ध्यानम् । श्रीवैखानसभगवच्छास्त्रे मरीचिः अथातस्सावित्रीकल्पं वक्ष्ये । चतुर्विशत्यक्षरा गायत्रीतिति श्रुतिः । सा गायत्री सवितृदेवत्या सावित्रीत्युच्यते । तस्या ऋविच्छन्दोऽधिदैवतं पुरा चोक्तम्। अष्टाक्षरा त्रिपदा, चतुप्पदाषडुक्षरा, जपे त्रिपदा, अर्चने चतुष्पदा । अमिवर्णाः घट्कुक्षिः पञ्चशीर्षा शुलमुखी कमलेक्षणा। ऋग्वेदः प्रथमः पादः, यजुर्वेदो िद्वतीयः पादः, सामवेदस्तृतीयः पादः, पृथिवी चरणम्, ऊरू पर्वतः अम्बरोऽथीनि, पूर्व प्रथमः कुक्षिः, दक्षिणेो द्वितीयः, पश्चिमस्तृतीयः, चतुर्थ उत्तरः, पञ्चम ऊध्र्वः, अषरष्षष्ठः, इतिहासपुराणानि (दिव्यागमनिगमा दिव्यरूपं) नाभिः, जगत् रूपम्