पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम उदरान्तरमाकाशः, श्छन्दस्तनौ, धर्मशास्रम् हृत् न्यायो बाहू गिरिराट् ग्रीवा प्रथमं शिरश्शब्दशास्त्र, िद्वतीयं शीक्षा तृतीयं कल्पः, चतुर्थे िनरुक्त, पञ्चमं ज्यौतिषम्। अनलं मुखं, क्दनमिन्दुमण्डलं, श्वसनो वायुः. अलका अभ्रपङ्क्तः , सहस्रकिरणो मुक्ताहारः, सोमो हारः, ताराः कुसुमानि, प्रहाः रलविभूषणानि, ब्रह्मा मूर्धा शिखा रुद्रः, विष्णुरात्मा, वेदान्ताः विमलं मनः, वेदा प्राणाः, मीमांसा चित्तमित्येवं ज्ञात्वा त्रिसन्धिषु त्रिविधं ध्यानमाचरेत् । पूर्वी सन्ध्यां कौमारी रक्तवर्णा हंसवाहनां अक्षसूत्रयज्ञोपवीतकमण्डलुधारिणीं ब्रह्मदेवत्यां सावित्रीं नाम सवित्र्या वासस्थानं मूमिः, साङ्खयायनगोत्रं, अमिर्गार्हपत्यम्, उपनयने विनियोगः, सूत्रं कात्यायनमित्येवं ध्यायेत् । मध्याहसन्ध्यायाम् यौवनवतीं रुद्राक्षार्धचन्द्रत्रिशूलधारिणीं. चेतवर्णा वृषभवाहनां रद्रदेवत्यां गायत्रीं नाम । गायत्र्या वासमन्तरिक्षम्, अन्यानि पूर्ववत् । सायं सन्ध्यायाम् सलक्षणां वृद्धां श्यामवर्णा सर्वाभरणभूषितां शङ्खचक्रधारिणीं गरुडवाहनां विष्णुदेवत्यां सरस्वती नाम । सरस्वत्या वास स्वर्गम्, अन्यानि पूर्ववत् । एवं ध्यात्वा जपमाचरेत् ' । इति तथा प्रत्यक्षरमृष्यादिकं तत्रैवोक्तम्। 'अथातोऽक्षराणां ध्यानं वक्ष्ये। सर्वेषां वर्णानां त्रिसन्धिषु पूर्ववत् ब्रह्मविष्णुरुद्ररूपम् । वर्ण ऋषिच्छन्दो देवताः फलविशेषञ्च पृथग्वक्ष्ये तत्कारं पीताभं वसिष्ठऋषिः छन्दोगायत्रं ब्रह्मदेवत्यं महापातकनाशनम् सकारं श्यामाभं भारद्वाजऋषि: उष्णिक् छन्दः, प्रजापतिर्देवता उपपातकनाशनम् विकारं पिङ्गलाभं गौतमऋषिः अनुष्टप् छन्दः सोमो देवता महापातकनाशनम् तुकारं नीलाभे भूगुऋषिः बृहती छन्दः ईश्वरो देवता दुष्टपापग्रहरोगाद्युपद्रब नाशनम्, क्कारं वह्निवर्णम् शण्डिलऋषिः पड़क्ति:छन्दः सूर्यो देवता श्रूणहत्यादि विमोचनम्, रेकारं ज्वालारूपं लोहितऋषिः त्रिष्टुप् छन्दः बृहस्पतिर्देवता अगम्यागमनपापविनाशनम्, णिकारं विद्यन्निभं गर्गऋषिः जगतीछन्दः इन्द्रो देवता अभक्ष्यभक्षणपापविनाशनम्, यकारं हेमाभं ज्ञातानपऋषिः जगतीछन्दः विष्णुर्देवता ब्रह्महत्यादिसर्वपापविनाशनम्, भकारं कृष्णवर्ण सनत्कुमारः ऋषिः पदपंक्तिछन्द अर्यमा देवता पुरुषहत्यादिपापविनाशनम्