पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] छन्दः सावित्री देवता गेहत्यादिपापविनाशनम्, देकारं श्यामाभं क्रि:िविराट् पञ्चक्तिश्छन्दः त्वष्टा देवता स्त्रीहत्यादिपापविमोचनम्, वकारं श्वताभं भार्गवऋषिः विराट्छन्दः पूषादेवता गुरुहत्यादिपापविमोचनम्, स्यकारं काञ्चनाभं पराशर ऋषिः अक्षरपद्मक्तिछन्दः महेन्द्रो देवता कूटकृतपापविनाशनम्, धीकारं काञ्चनाभं पैौण्डरीकऋषिः कात्यायनीछन्दः वायुर्देवता अभक्ष्यभक्षणदोषविनाशनम्, मकारं पद्मरागनिभं क्रतुऋषिः ज्योतिष्मतीछन्दः वामदेवो देवता जन्मान्तरपाप विनाशनम्, हिकारं चेताभं दक्षत्रषिः त्रिष्टुप् छन्दः मित्रावरुणौ देवता सर्वपापविनाशनम्, धिकारं पुण्डरीकनिभं प्रजापतिऋषिः सर्व छन्दः सोमो देवता सर्वदोषविनाशनम्, योकारं कपिलाभं आङ्गिरसऋषिः महाछन्दः विश्वेदेवा देवताः प्राणिहिंसापापविनाशनम्, द्वितीययोकारं अञ्जनाभं कात्यायन ऋषिः महाछन्दः यमो देवता दुष्टग्रहनाशनम्, नकारं श्यामाभं मुद्रलऋषिः भूश्छन्दः विष्णुर्देवता भ्रूणहत्यादिपापविनाशनम्, प्रकारं शुद्धस्फटिकसङ्काशं भुवश्छन्दः विष्णुर्देवता विष्णुलोकप्रदम्, चकारं कुमाभं रोमशत्रविः सुवश्छन्दः सर्वेदेवा देवताः ब्रह्मलोकप्रदम्, दकारं शुक्रुवर्ण भूर्भुवस्सुवश्छन्दः विष्णुर्देवता विष्णुलोकप्रदम्, यात्कारं हेमाभं विश्वामित्रऋषिः देवीगायत्री छन्दः ब्रह्मा देवता सर्वसिद्धिप्रदमिति । एवं ध्यात्वा ध्यानयुक्तः ओं भूर्भुक्स्सुवस्तत्सवितुरिति साक्विीं दशशताष्टकं त्रिसन्धिषु मनसा जपेत् । सावित्र्यध्ययनात् आयुः श्रीश वर्चसं प्रजासमृद्धिर्धनधान्यसमृद्धिश्च मवती' ति । अथ तत्त्वानि – 'पृथिव्यापस्तथा तंजा वायुराकाश एव च । गन्धो रसश्च रूपञ्च शब्दः स्पर्शस्तथैव च । अथ बणः – उपस्थः पायुपादौ च पाणी वागपि च क्रमात् । घ्राणं जिह्वा च चक्षुश्ध त्वक् च श्रोत्रमतः परम् । मनो बुद्धिरहङ्कारश्चाव्यक्तश्च यथाक्रमम् । क्रमाचम्पकपुष्पाभमतसीपुष्पसन्निभम् । विद्रुमं स्फटिकाकारं पद्मपुष्पसमप्रभम् ।