पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० श्री श्रीनिवासमतिकृत-तात्पर्यचिन्तामणिसहितम् तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् । वज्रनीलमणिप्रख्यं मौक्तिकं कुडुमप्रभम् । अञ्जनाभञ्च गाङ्गेयं वैदूर्य क्षौद्रसन्निभम् । हारिद्रं कृष्णगन्धाभं रविकान्तिसमप्रभम् । शुकपिच्छसमाकारं क्रमेण परिकल्पयेत् ।। अथ शक्तयः - 'प्रहादिनी प्रभा नि(स)त्या विश्वभद्रा विलासिनी । प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती । विद्रमा च विशालेशा व्यापिनी विमला तथा । तमोपहारिणी सूक्ष्मा क्श्वियोनिर्जयावहा । पद्मालया पर शाभा भद्ररूपा च शक्तयः । [प्रथम प्रश्ने अथाक्षरन्यासः । अत्र मरीचि : पदादिमूर्धान्तं क्रमेण चतुर्विशतिस्थानेष्वक्षराणि न्यसेत् । पादाङ्गुष्ठ गुल्फजङ्गजानुद्वयोरुद्वयगुह्यप्रदेशवृषणकटिनाभिजठरस्तनहृदथकण्ठक्दनतालुनासा चक्षुः भूमध्यललाटाग्रमूर्धपूर्वभागदक्षिणोत्तरपश्चिममूर्धतत्तन्मुखशिरोमध्यचतुर्मुखें . वमक्षराणि ध्यात्वा विन्यसेन्। सोऽपि सर्वपापैर्मुक्तो भवतीति विज्ञायते' इति। अगस्त्यश्च– “ वृषणे कटिदेशे च नाभौ चोदरमध्यतः । स्तनयोर्हदये कण्ठे व तालुनि घोणके । चक्षुषोश्च ध्रुवोर्मध्ये ललाटे पूर्ववतूके । दक्षिणे चोत्तरे वक्त पश्चिमे मूत्रिं च क्रमात् ।।' इति ग्यासप्रकारांश्च स एवाह –“ ओं तत् प्रह्मदिन्यै चम्पकनिभायै नमः । ओं सं प्रभायै अतसीपुष्पसन्निभायै नमः। ओं विं नित्यायै पिङ्गलवर्णायै नमः । ओं तुं विश्वभद्रायै इन्द्रनीलनिभायै नम । ओं वै विलासिन्यै वह्निरूपायै नमः । ओं रें प्रभावयै नीलवर्णायै नमः । ओं णिं जयायै विद्युत्प्रभायै नमः । ओं यं शान्तायै रक्तवर्णायै नमः । में भं कान्तायै जलवर्णायै नमः । ओं गों दुर्गायै