पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड:] श्रीवैखानसगृह्यसूत्रम् अथ तत्त्वन्यासः | रक्तवर्णायै नमः । ओं दें सरस्वत्यै मरकतनिभायै नमः । ओं चं विदुमायै जातिपुप्पनिभायै नमः । ओं यं विशालायै स्वर्णप्रभायै नमः । ओं धीं ईशानायै कुन्दप्रभायै नमः । ओं में व्यापिन्यै पद्मरागनिभायै नमः । ओं हिं विमलायै शङ्कनिभायै नमः । ओं धिं तमोपहारिण्यै पाण्डुरनिभायै नमः । ओं यों सूक्ष्मायै इन्द्रगोपनिभायै नमः । ओं ये विश्वयोन्यै क्षौद्रनिभायै नमः । ओं नं जयावहायै आदित्योदयसन्निभायै नमः । ओं मै पद्मालयायै नीलोत्पलनिभायै नमः । ओ चेों परायै गोरोचनाभायै नमः । ओं दं शोभायै कुन्देन्दुशङ्क निभायै नमः । ओं यात् भद्ररूपायै स्फटिकनिभायै नमः इति । 'मूर्धदिपादपर्यन्तं संहारन्यास उच्यते । पादादिनाशिपर्यन्तं शिरःप्रभृति वक्षसेि । कर्तव्यः कामिमिन्यसो गृहस्थैः स्थितिसंज्ञकः । ७१

  • तत्वन्यासमथो वक्ष्ये साधकानां हिताय वै ।

यत्कृत्वा साधक गच्छेन्निर्वाणं पदमव्ययम् । 'ओङ्कारमादावुचार्य मन्त्रबीजमनन्तरम् । ततस्तत्त्वं नमोऽन्तञ्च जपन् न्यासं समाचरेत् ॥ तद्यथा -- * ओ तत् पृथिव्यात्मने नमः इति पादयोः । ओं सं उदकात्मने नमः जान्वोः । ओं विं तेजआत्मने नमः हृदये। ओं तुं वाय्वात्मने नमः मुखे । ओं वै आकाशात्मने नमः मूर्श्वि । ओं रें गन्धतन्मात्रात्मने नमः घ्राणयो । ओं णिं रसतन्मात्रात्मने नमः जिह्वयाम् । ओं यं रूपतन्मात्रात्मने नमः चक्षुषोः । ओ भं स्पर्शतन्मात्रात्मने नमः त्वचि । ओं गौ शब्दतन्मात्रात्मने नमः श्रोत्रयोः । ओं दें उपस्थात्मने नमः लिङ्गे । ओं वै पाय्वात्मने नमः पायौ । ओं स्यं पादात्मने नमः पादयोः । ओं धीं पाण्यात्मने नमः हस्तयोः । ओं में वागात्मने नमः मुखे । ओं हिं घ्राणात्मने नमः घ्राणयोः । ओ धिं जिहात्मने नमः जिह्वायाम् । ओं यों चक्षुरात्मने नमः चक्षुषोः । ओं ये नमः त्वगात्मने नमः