पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्मचिन्तामणिसहितम् [प्रथम प्रश्ने त्वचि । ओं नं श्रेोलात्मने नमः श्रोत्रयोः । ओं में मनआत्मने नमः हृदये । ओं नों बुद्धयात्मने नमः हृदि । ओं यात् अव्यक्तात्मने नमः हृदि । एवं विन्यस्य सावित्रीं ध्यात्वा सम्यक् प्रयलतः । यं यं पश्यति चक्षुभ्यां स्वयं स्पृशति पाणिना । यं यं वा भाषते चैव सर्वे पूता भविन्त ते ।।' इति अभय गायत्रीकवचम् –“ओं इति हृदये भूरिति मुखे, भुव इति शिरसेि, सुवरिति सर्वाङ्ग । एवं विन्यस्य यथाविधि मुद्राश्च प्रदर्शयेत् । अगस्त्यः – ' अथातो दर्शयेन्मुद्राः सम्मुखं सम्पुटं तथा । ततो विनतविस्तीर्णे द्विमुखं त्रिमुखं तथा । चतुर्मुखं पञ्चमुखं षण्मुखाधोमुखे ततः । व्यापकं चलिकास्यञ्च शकटं तदनन्तरम् । यमपाशश्च प्रथितं तस्यात्सम्मुखोन्मुखम् । वि()लम्बमुष्टिकमीनाः ततः कूर्मवराहकौ । सिंहाक्रान्तं महाक्रान्तं ततो मुद्भरवलुवौ ॥ आसां मुद्राणां लक्षणमगस्त्यकल्पे स्मृतिचन्द्रिकायाञ्च द्रष्टव्यम् । ग्रन्थान्तरेषुक्तत्वात्कंचिन्नेच्छन्ति । प्रत्यवायाभावात् ।

  • न जातु दर्शयेन्मुद्रा महाजनसागमे ।

क्षुभ्यन्ति देवतास्तस्य विफलञ्च कृतं भवेत् ।' इति यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्राविशुष्कंधोन तज्ज्वलतिकर्हिचित्।।'इतिशौनकस्मरणात् अविदित्वा ऋषिं च्छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः । ऋपिछन्दोदेक्ताश्ध ध्यात्वा मन्त्रार्थमेव च । अनुष्ठानं ततःकुर्यादिति वेदविदो विदुः।।' इति पितामहस्मरणाच मन्त्रार्थचिन्तनपूर्वक जपः कार्यः ।