पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड:} ब्रह्माण्डे - ' मन:प्रहादनं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जप्सम्पतिहेतवः ।। भारद्वाजः- 'निष्ठीवजूनृम्भणक्रोधनिद्रालस्यक्षुधामदाः । पतिश्धान्त्यजा लोको दशैते जपवैरिणः । । व्यासः-- * न प्रकम्पन्न च हसन्न पार्श्वमवलोकयन् । नापाश्रितो न जल्पंश्ध न प्रावृतशिरास्तथा । न पदा पदमाक्रम्य न चैव हि तथा करौ । न चासमाहतमना न च सश्रावयन् जपत् ।।' सुमन्तुः– 'खण्डवस्रावृतस्यैव वस्त्रार्धालम्बिनस्तथा । उत्तरीयव्यतीतस्य समस्त निष्फलाः क्रियाः । । श्वशूद्रपति.iचैव रासभञ्च रजस्वलाम् । दृष्टा तीथमुपस्पृश्य भाष्य स्रात्वा पुनर्जपेत्। । । चन्द्रिकायाम् – जपकाले न भाषेत जपहोमादिकेष्वपि । एतेष्वेवावसक्तस्तु यद्यागच्छेद्विजोत्तमः । अभिवाद्य ततो वित्रं योगक्षेमञ्च कीर्तयेत् ।।

  • नाभेरधः स्वकायन्तु स्पृष्टा प्रक्षालयेत्करौ ।

दक्षिणं वा स्पृशेत्कर्ण स्मरेद्वा विष्णुमव्ययम् ।।' योगयाज्ञवल्क्यः -' यदि चायमलोपः स्याज्जपादिषु कथञ्चन । व्याहरेद्वैष्णवं सूतं स्मरेद्वा विष्णुमव्ययम् ।।' प्राणायाममेकावरं कृत्वा अष्टावरां सावित्रीमभ्यस्य 'मित्र स्ये ' त्यादिमिः ऋग्भिस्तिसृभिस्तिष्ठन् सन्ध्यामुपासीत ॥ ९ ॥ सावित्रीमभ्यस्य विश्वामित्रः – * देवस् तावतुसस्य िधयो यो नः प्रचोदयात् । भर्गे क्रेण्यं तद्भस धीमहीत्यर्थ उच्यते ।।' यन्म – 10