पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहित अगस्त्यः – 'यो देक्स्सक्तिाऽस्माकं धियो धर्भादिगोचराः । प्रेरयेतस् यद्भर्गस्तद्वरेण्यमुपास्महे ॥ ! सवितुः-जगतां प्रसवितुः।'सविता वै प्रसवानमीशे' 'उतेशिषे प्रसवस्य त्वमेक' इत्यादिश्रुतेः। घरेण्यै 'वृङ् सम्पतै-सर्वेषां भजनीयं भर्गः एण्यप्रत्ययः । । तेजः । भञ्जनात् भर्गः प्रकाशप्रदानेन जगतो बाह्यान्तरतमोभञ्जकत्वात्, भर्जनाद्वा कालात्मतया सकलकर्मफलपाकहेतुत्वात्, धरणाद्वा वृष्टिप्रदानेन भूतानां भरण हेतुत्वात् । मैत्रायणभुतिः- 'एतत्सवितुर्वरेण्यं ध्रुवमचलममृतं भर्गाख्यं विष्णुसंज्ञ सर्वाधारं |प्रथम प्रश्ने योगमाज्ञवल्क्यः -' ईदृशं पुरुषाख्यश्च सत्यधर्माणमच्युतम् भर्गाख्यं विष्णुसंज्ञश्च ध्यात्वाऽमृतमुपाश्नुते ॥' इति। देवस्य द्योतमानस्य । धीमहि । ध्यै चिन्तायाम् । देवस्य सक्तुिर्वरेण्यं यत् भर्गः परं धाम तत् ध्यायामः । आदित्यमण्डलान्तर्वर्तिनं तेजोमय पुरुषमनुचिन्तयामः । 'येन सूर्यस्तपति तेजसेत्थः' । 'य एषोऽन्तरादित्ये िहरण्मय पुरुषः' इत्याद्याः श्रुतयः । धियो यो नः यः सविताऽस्माकं धियः हानोपादा नादिविषयाणि ज्ञानानि प्रचोदयात् प्रवर्तयति। तस्य सवितुः, तत्भर्ग:चिन्तयाम:। तथा प्रपञ्चसारे-' तदिति द्वितीयैकवचनम् । अनेनाविलवस्तूनां सृष्टयादि कारणं तेजोरूपमादित्यमण्डलेऽभिध्येयं सदानन्दं परं ब्रह्माभिधीयते । तत्र वरेण्यं वरणीयत्वात् । तत्र पापस्य भर्जनात् भर्ग: । भक्तन्निग्धतया तत्र धीमहि – दृश्यो हिरण्मयो देवः आदित्ये नित्यसंस्थितः । यस्सूक्ष्मस्सोऽहमित्येव चिन्तयामस्तदेव तु ।। इति । अथ देवताध्यानम् । विश्वामित्रः– “ आदित्यमण्डलसीनं रुक्माभं पुरुषं परम् । ध्यायन् जपेतदित्येतां निष्कामो मुच्यते द्विजः ।