पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सणs स्वप्र नित्यमानन्दं हृदये भण्डलेऽपि च । ध्यायन् जपेत्तदित्येतां निष्कामो मुच्यतेऽचिरात् । । 'स यश्चायं पुरुषे यश्चासावादित्ये । स एकः' इति ध्याय 'न्नित्यर्थः । तत्र ध्येयत्वेनोक्तः पुरुषः पुण्डरीकाक्ष इति छान्दोग्ये श्रूयते --- | यथाः

  • य योऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश

आपणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी 'इत्यादि । अन्तस्तद्धर्मोपदेशात्' इति सूत्रार्थोऽवाभिप्रेतः । आदित्येपस्यानस्य अगस्त्यः-- 'आदित्यमण्डले ध्यायेत्परमात्मानमव्ययम् । विष्णु चतुर्भुजं रक्तपङ्कजासनमध्यगम् ॥ किरीटहारकेयूरनूपुरैरुपशोभितम् । हरिं पीताम्बरधरं शङ्खचक्रगदाधरम् । प्रसन्नवदन रलकुण्डलैर्मन्डताननम् । सर्वरत्रसमायुक्तं सर्वाभरणभूषितम् । एवं ध्यात्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् । सर्वपापविशुद्धात्मा जितक्रोधो जितेन्द्रियः । संसारार्णवमुत्तीर्य परां सिद्धिमवाप्नुयात् । सनकस्मृतौ – 'रश्मिज्वालासहस्राढ्यं विपुलं मण्डलं रवैः । स्फुरत् स्फुलिङ्गममलं ज्वालामालासहस्रकम् । तस्य मध्ये सुखासीनं तसहाटकसन्निभम् ॥ चतुरङ्गुलमाखन्तु शुकपत्रनिभाम्बरम् । रक्तनेत्रधरं रक्तपाणिपादनखं शुभम् ॥ शङ्खचक्रगदापाणिं श्रीवत्सातिवक्षसम् । उद्दामविलसन्मुक्ताछन्नहारोपशोभितम् ॥