पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शौनकः – स्मृत्यन्तरे – शातातपः – पराशरः- मतामणिसहितम् किरीटकेयूस्युतं कटिसूतोपशोभितम् । एवं ध्यात्वा जपेन्मन्त्रं गायत्रीं नियतश्शुचिः । । कृत्वोत्ता करौ प्रातः सायश्चाधोमुखैौ करौ । मध्ये स्कन्धभुजभ्यान्तु जप एवमुदाहृतः ॥ अङ्गुली न युिञ्जीत किंचिदाकुञ्चिते तले । अकुलीनां वियोगे तु भेदे तु भवते जपः । ' अधोहस्तन्तु पैशाचमूध्र्वहस्तन्तु दैवतम् । बद्धहस्तन्तु गान्धर्व मध्यहम्तन्तु राक्षम् जकारो जन्मविच्छेदः पकारः पापनाशनः । जन्मकर्महरो यस्मात् तस्माज्जप इनि स्मृतः । मकारो मन इत्याहुस्वकारस्राणमेव च । मनस्राणसमायुक्तो मन्त्र इत्यभिधीयते । गायत्री प्रोच्यते तस्मान् गायन्तं त्रायते यत्न । पुण्यस्य प्रमवात्मैव सावित्री परिकीर्तिना । । 'दमहीना तु या सन्ध्या यच दानं विनोदकम् । असङ्खयानन्तु यञ्जमं नत्सर्वं स्यान्निरर्थकम् ।। 'त्रिविधो जपयज्ञम्यात्तस्य भेदं निबोधत । यदुचनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः । मन्त्रमुचारयेद्वाचा वाचिकोऽयं जपम्मृतः । शनैरुचारयेन्मन्त्रमीषदोष्ठौ प्रचारयन् । अपरैरश्रुतं किञ्चित्स उपांशुर्जपः स्मृतः । धिया यदक्षरश्रप्ग्रा वर्माद्वर्ण पदात्पदम् । शब्दार्थचिन्तनं भूयः कथ्यते मानसो जप : । त्रयाणां जपयज्ञानां श्रेष्ठस्यादुत्तरोत्तरः । [प्रथम प्रश्ने