पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खण्ड:] व्यास भावानसगृह्यसूत्रम् व्यासः - 'प्रणवन्याहृतियुतां गायत्रीञ्च जपेत्ततः । समाहितमनास्तूर्ण मनसा वापि चिन्तयेत् ।। योगयाज्ञवल्क्यः- 'ओङ्कारं पूर्वमुचार्य भूर्भवस्वस्तथैव च । गायत्रीं प्रणवश्चान्ते जप एवमुदाहृतः । । एषा सम्पुटगायत्री 'उभयतः प्रणवां सव्याहृतिका' मिति बोधायनः । स्मृत्यन्तरे - ' सम्पुटैकषडोङ्कारा गायत्री त्रिविधा मता । तत्रैकप्रणवा ग्राह्या गृहस्थैर्जपकर्मणेि । गृहस्थवतु जप्तव्या सदैव ब्रह्मचारिभिः । सम्पुटा च षडोङ्कारा भवेतामूध्वरेतसाम् । प्रणवन्याहृतियुता स्वाहान्ता होमकर्मणि । शुद्धा वात्र प्रयोक्तव्या त्याहृतिप्रणेवैर्विना ॥ स्मृतिरत्नेः – शुद्धयैव तु होतव्यं गायत्र्या होमकर्मणि । त्रिकणैव जपः कार्यो जपयज्ञप्रसिद्धये । । प्रणवन्याहृनियुतां गायत्रीश्च जपेत्ततः । समाहितमनास्तूर्ण मनसा वापि चिन्तयेत्' । इनि । वृद्धमनुः – ' षडोङ्कारां जपेद्विप्रो गायत्रीं मनसा शुचिः । अनेकजन्मजैः पापैर्मुच्यते नात्र संशयः । तिस्रो व्याहृतयः पूर्वं पृथगोङ्कारसंयुताः । पुनस्संहृत्य चोङ्कारं मन्त्रस्याद्यन्तयोस्तथा । साङ्कारा चतुरावत्य विज्ञेया सा शताक्षरा । शताक्षरां समावृत्य सर्ववेदफलं लभेत् ।। एतया ज्ञातया नित्यं वाङमयं विदितं भवेत् । उपासितं भवेतेन स्वयं भुवनपञ्चकम् ।। याज्ञवल्क्यः – 'ब्रह्मचार्याहितान्निश्च शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिचैव सहस्रादधिकं जपेत् ।। ७७