पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याताः - यद्वाऽऽपत्सु जपेद्देवीमष्टाविंशतिमष्ट वा ! गृहस्थो ब्रह्मचारी च प्रणवाद्यामिमां जपेत् । अन्ते यः प्रणवं कुर्यान्नासौ वृद्धिमवाप्नुयात् । भाराजतंथर्त- 'सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ गायत्रीं वै जपेद्विद्वान् प्राथुखः प्रयतः स्थितः । न कदाचिदपि प्राज्ञो गायत्रीमुदकं जपेत् ॥ गायत्र्यमिमुखी प्रोक्ता तस्मादुत्तीर्य तां जपेत् । । पराशरः- 'पूर्वी सन्ध्यां जपतिष्ठेत्सावित्रीमार्कदर्शनात् । । पश्चिमान्तु समासीनस्सम्यक्षविभावनात्। तथा मध्याहसन्ध्यायमासीनः प्राथुखो जपेत् । अच्छिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति । छिन्नपदा तु गायत्री ब्रह्महत्यां व्यापोहति । चतुथ्र्यान्तु चतुष्षष्टि सप्तम्यान्तु तदर्धकम् । शस्ता प्रदोषे दशें च गायत्री दशसह्वया ।। अष्टाविंशदनध्याये सुदिने तु यथाक्रमम् । नारदः- कुशबन्वैर्जपेद्विः सुवर्णमणिभिर्तृप । पुत्रजीवफलैवैश्यः पद्माक्षेस्सर्व एव वा । पुष्टयथै पञ्चविंशत्या पञ्चदश्याऽभिचारिकः । जपस्य गणनां प्राहुः पद्मात्रैर्भक्तिवर्धनीम् । जपेतु तुलसीका8ः फलमक्षयमश्नुते । भारद्वाजः- मध्यमाहुलेिमूलेन यत्पर्वद्वितयं भवेत् । । तं वै मेरुं विजानीयाज्जपेत्तन्नf लंघयेत् ।। नारदः – 'प्रारम्यानामिकायास्तु मध्यमे पर्वणेि क्रमात् । तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ॥ ी श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने