पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] व्यासः - निगृह्यसूत्रम् मध्याकुलेर्मध्यरेल समारभ्य प्रदक्षिणम् । मध्यमामूलपर्यन्तमङ्गुष्ठेन यथाक्रमम् । स्पृष्टिः द्वादशसंख्या स्यादेकवारेण तन्नव । वामहस्तेन सङ्खयातं शतमष्टोत्तरं स्मृतम् ? ।। 'तुरीयं तु पदं तस्याः परे ब्रह्मणि संस्थितम् । उपस्थाय तुरीयेण जपेतान्तु समाहितः । जपित्वा त्रिर्नियम्यासून् गायत्रीमभिवाद्य च । कृत्वा तुरीयोपस्थानं तामुद्वास्योपतिष्ठते ॥ तुरीयोपस्थानम् । 'गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे। नमस्ते तुरीयाय दर्शतायपदाय ! परोरजसे । असाक्दोमा प्रापत्तदोम् । अस्य विमलऋषिः तुरीयश्छन्दः परमात्मा देक्ता मोक्षे विनियोगः । पितामहः- 'एवं जप्त्वा यथाशक्ति ह्यदिते तु दिवाकरे । उत्तमेत्यनुवाकन उद्वास्येच यथागतम् ॥ उत्तम इत्यनुवाकस्य वामदेव ऋषिः अनुष्टुप् छन्दः गायत्री देवता । अनेनोद्वास्थोपस्थानं कुर्यात् । मिवस्येत्यादिभिरित्यादि पितामहः - 'मित्रस्येति त्र्युचस्येह विश्वामित्र ऋषिंस्मृतः । भवेद् गायत्रमादस्तु त्रिष्टुभाविह पिश्चमौ । देवता चैव मित्रस्यादित्युवाच बृहस्पतिः । । स्मृत्यन्तरे– ' अथोपतिष्ठेदादित्यमुदयन्तु समाहित । मन्त्रैस्तु विविधैस्सौरैः ऋग्यजुस्सामसम्भवैः । एताभिः प्राञ्जलेिस्सम्यग्विसृष्टोदितमण्डलम् । सहस्रांशु भगवन्तमुपतिष्ठेत भास्करम् । अथ कमान्नमस्कुर्यात् चतुस्सन्ध्याधिदेवताः ।